________________
आगम
(४३)
प्रत
सूत्रांक
||२८
-३०||
दीप
अनुक्रम
[२०६
-२०८]
उत्तराध्य
बृहद्वृत्तिः
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [७], मूलं [-] / गाथा || २८-३०||
निर्युक्तिः [२४९...]
एवं कामानिवृत्त्या यस्यात्मार्थोऽपराध्यति स वालः इतरस्तु पण्डित इत्यर्थादुक्तम् ॥ सम्प्रति पुनरनयोरेव साक्षात्स्वरूपं फलं चोपदर्शयन्नुपदेशमाह -
बालस्स परस बालसं, अहम्मं पडिवजिआ । चिश्चा धम्मं अहम्मिट्टे, नरएसृववज्जइ ॥ २८ ॥ धीरस्स परस धीरतं सव्वधम्माणुवत्तिणो । चिया अधम्मं धम्मिट्टे, देवेसु उबवजह ॥ २९ ॥ तुलिआण बालभाव, अवालं चैव पंडिए । चऊण बालभावं, अबालं सेवए मुणी ॥ ३० ॥ सिबेमि ॥ व्याख्या- 'बालस्य' अज्ञस्य 'पश्य' अवधारय 'बालत्वम् ' अज्ञत्वं, किं तदित्याह - 'अधर्म' धर्मविपक्षं विषयासक्तिरूपं 'प्रतिपद्य' अभ्युपगम्य, पठ्यते च - 'पडिवजिणो' त्ति प्रतिपादिनोऽवश्यंप्रतिपद्यमानस्य त्यक्त्या' अपहाय 'धर्म' विषयनिवृत्तिरूपं सदाचारं 'अहमिट्ठेति प्राग्वत् 'नरके' सीमन्तकादावुपलक्षणत्वात् अन्यत्र वा दुर्गतावुत्पद्यते ॥ तथा धीः बुद्धिस्तया राजत इति धीरः- धीमान् परषहाद्यक्षोभ्यो वा धीरः तस्य 'पश्य' प्रेक्षस्व 'धीरत्वं' धीरभावं, सर्व धर्म क्षान्त्यादिरूपमनुवर्तते तदनुकूलाचारतया स्वीकुरुत इत्येवंशीलो यस्तस्य सर्वधर्मानुवर्तिनः, धीरत्वमेवाह- ' त्यक्त्वा' हित्वा अधर्म-विषयाभिरतिरूपमसदाचारं 'धम्मिट्ठेति इष्टधर्म्मा, यदिवा-अतिश येन धर्मवानिति, इष्टनि “विन्मतोर्तुगि” (पा० ५-३-६५ ) ति मतुलोपे धर्मिष्ठ इति देवेषूपपद्यत इत्याह || यतश्चैवमतो यद्विधेयं तदाह - 'तोलयित्वा' इति प्राग्वत् 'वाभाव' वात्वम् 'अवाल'ति भावप्रधानत्वान्निर्देशस्यावालत्वं धीरत्वं, 'चः' समुच्चये, एवेति प्राकृतत्वादनुखारलोपः 'एवम्' अनन्तरोक्तप्रकारेण 'पण्डितः' बुद्धिमान्
त्यक्त्वा 'बालभावं' बालत्वम् 'अवाले'ति अवालत्वं 'सेवते' अनुतिष्ठति 'मुनिः' यतिरिति सूत्रत्रयार्थः ॥ 'इतिः' परिसमाप्तौ त्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्यदेवेति सूत्रार्थः ॥ इति श्रीशान्याचार्य| विरचितायामुत्तराध्ययनटीकायामुरश्रीयमध्ययनं समाप्तम् ॥
॥
औरश्री
याध्य. ७
पज्य आगमोद्धारकश्री संशोधितः मनि दीपरत्नसागरेण संकलित आगमसत्र 231 मलसत्र ५] उत्तराध्ययनानि मलं एवं शान्तिसरिविरचिता वत्तिः
अत्र अध्ययनं ७ परिसमाप्तं
~71~