SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||१०|| दीप अनुक्रम [१८] [भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१०|| निर्युक्तिः [२४९...] अध्ययनं [७], 'परिक्षीणे' सर्वथा क्षयं गते, कदाचिदायुःक्षयस्याऽऽवीचिमरणेन प्रागपि सम्भवादेवमुच्यते, 'च्युतः ' भ्रष्टो 'देहात् ' शरीरात्, पाठान्तरतस्तु 'च्युतदेहो' अपगते हत्यशरीरः ''विहिंसकः ' विविधप्रकारैः प्राणिघातकः, 'आसुरियं'ति अविद्यमानसूर्याम्, उपलक्षणत्वाद्वहनक्षत्रविरहितां च दिश्यते नारकादित्येनास्यां संसारीति दिक् ताम्, अर्थात् भावदिशम्, अथवा रौद्रकर्मकारी सर्वोऽप्यसुर उच्यते, ततश्वासुराणामियमासुरी या तामासुरीयां दिशं नरकगतिमित्यर्थः, 'बालः' अज्ञो गच्छति - याति 'अवशः' कर्म्मपरवः शो, वचनव्यत्ययाच सर्वत्र बहुवचननिर्देशो व्याप्तिख्यापनार्थो वा, यथा नैक एवंविधः किन्तु बहव इति, 'तमीति तमोयुक्तत्वात् तमः, देवगतेरप्यसूर्यत्वसम्भवात् तद्वयवच्छेदाय दिशो विशेषणं, ततोऽर्थान्नरकगतिम् उक्तं हि - - " णिबंधयारत मसा ववगयगह चंदसूरणक्खत्ता" इत्यादि| स्वरूपख्यापकं वा द्वितीयं व्याख्यानमिति सूत्रार्थः ॥ सम्प्रति काकिण्यानदृष्टान्तद्वयमाह- जहा कागिणीए हे, सहस्सं हारए नरो। अभपत्थं अंबर्ग भोचा, राया रज्जं तु हारए ॥ ११ ॥ व्याख्या- 'यथा' इत्युदाहरणोपन्यासार्थः, 'काकिण्याः' उक्तरूपायाः 'हेउ'ति हेतोः कारणात् 'सहस्रं' दशशतात्मकं, कार्षापणानामिति गम्यते, 'हारयेत्' नाशयेतत् 'नरः' पुरुषः । अत्रोदाहरणसम्प्रदायः १ नित्यान्धकारतमसा व्यपगतग्रह्चन्द्रसूर्यनक्षत्राः । For Parana Praten notaro org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~53~
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy