________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [२१], मूलं [-] / गाथा ||११-२३|| नियुक्ति : [४३५...]
प्रत
सूत्रांक
||११-२३||
संजयेत्ति न चापि पूजां गहीं च प्रतीति शेषः 'असजत् सङ्गं विहितवान् ,तत्र च अनुन्नतत्वमनवनततं च हेतुर्भावतः, उन्नतो हि पूजां प्रति अवनतश्च गहाँ प्रति सङ्गं कुर्यान त्वन्यथेति भावः, पूर्वत्राभिरुचिनिषेध उक्तः, इह तु || सङ्गस्येति पूर्वस्माद्विशेषः, 'स' इति सः' एवंगुणः 'ऋजुभायम्' आर्जवं 'प्रतिपद्य' अङ्गीकृत्य संयतो 'निर्वाणमार्ग' सम्य-15 ग्दर्शनादिरूपं विरतः सन् 'उपैति' विशेषेण प्राप्नोति, वर्तमाननिर्देश इहोत्तरत्र च प्राग्वत् । ततः स तदा कीदृशः किं करोतीत्याह-अरतिरती संयमासंयमविषये सहते-न ताभ्यां वाध्यत इत्यरतिरतिसहः, 'पहीणसंथवेत्ति प्रक्षीणसंस्तवः संस्तवाहीणो वा, संस्तवश्च पूर्वपश्चात्संस्तवरूपो वचनसंवासरूपो वा गृहिभिः सह, प्रधानः स च संयमो |मुक्तिहेतुत्वात् स यस्यास्त्यसौ प्रधानवान् , परमः-प्रधानोऽर्थः पुरुषार्थो वाऽनयोः कर्मधारये परमार्थी-मोक्षः स पद्यते। |-गम्यते यैस्तानि परमार्थपदानि-सम्यग्दर्शनादीनि सुव्यत्ययात् तेषु तिष्ठति-अविराधकतयाऽऽस्ते 'छिन्नसोय'त्ति छिन्नशोकः छिन्नानि वा श्रोतांसीव श्रोतांसि-मिथ्यादर्शनादीनि येनासौ छिन्नश्रोताः अत एवाममोऽकिञ्चनः, इह च संयमविशेषाणामानन्त्यात्तदभिधायिपदानां पुनः पुनर्वचनेऽपि न पौनरुतयं, तथा 'विविक्तलयनानि' ख्यादिविरहितोपाश्रयरूपाणि विविक्तत्वादेव च 'निरोवलेवाईति निरुपलेपानि-अभिष्यङ्गरूपोपलेपवर्जितानि भावतो द्रव्यतस्तु तदर्थ नोपलिप्तानि 'असंसृतानि' बीजादिभिरख्यातानि, अत एव च निर्दोपतया 'ऋषिभिः' मुनिभिः 'चीर्णानि' आसेवितानि, चीर्णशब्दस्य तु 'सुचीर्ण प्रोपितत्रत मितिवत्साधुता, 'फासेज'त्ति अस्पृशत् , सोढयानित्यर्थः, पुनः पुनः
दीप अनुक्रम [७८३-७९५]
SamEducatum totumational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~474