SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२०], मूलं [-] / गाथा ||३८-५०|| नियुक्ति: [४२२R...] प्रत सूत्रांक ||३८ -५०|| विषादिवत् 'धम्मोत्तिधर्मो-यतिधर्मः 'विपयोपपन्नः' शब्दादिविषययुक्तो हन्ति, दुर्गतिपातहेतुत्वेन द्रध्ययतिमिति शेषः 'वेताल इवाविवण्ण'त्ति अविपन्नः अप्राप्तविपत् मन्त्रादिभिरनियबित इत्यर्थः,पठ्यते च-'वेयाल इवावि-- बंधणो'त्ति इह च 'अविवन्धनः' अविद्यमानमत्रादिनियन्त्रणः, उभयत्र साधकमिति गम्यते ॥ यो लक्षणं 'सुविणोत्ति खप्नं चोकरूपं 'प्रयुञ्जानः' व्यापारयन् निमित्तं च-भौमादि कौतुकं च-अपत्याद्यर्थ सपनादि तयोः संप्रगाढा-अतिशयासक्तो निमित्तकौतुकसंप्रगाढः 'कुहेडविज'त्ति कुहेटकविद्या-अलीकाश्चर्यविधायिमत्रतत्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुतयाऽऽश्रवद्वाराणि तेर्जीवितुं शीलमस्येति कुहेटकविद्याऽऽश्रवद्वारजीवी 'न गच्छति' न| प्राप्नोति 'शरणं' त्राणं दुष्कृतरक्षाक्षम 'तस्मिन्' फलोपभोगोपलक्षिते 'काले' समये ॥ अमुमेवा) भावयितुमाह-तम18/तमेणेव उत्ति अतिमिथ्यात्वोपहततया 'तमस्तमसैव' प्रकृष्टाज्ञानेनैव 'तुः' पूरणे सः' द्रव्ययतिः अशीलः सदा दुःखी विराधनाजनितदुःखेनैव 'विष्परियासुवेईत्ति विपर्यासं तत्त्वादिषु वैपरीत्यम् 'अति' उपगच्छति, ततश्च 'संधावति' | सततं गच्छति नरकतिर्यग्योनीः 'मौन' चारित्रं विराध्य 'असाधुरूपः तत्त्वतोऽयतिखभावः सन् , अनेन विराधनाया अनुबन्धवत्फलमुक्तम् ॥ कथं पुनर्मोनं विराध्य कथं वा नारकतिर्यग्गतीः संधायतीत्याह-'उद्देसिय मित्यादि, क्रयणं-क्रीतं तेन कृतं-निर्चितं क्रीतकृतं नित्यागं नित्यपिण्डम् 'अग्गीविवत्ति अग्निरिव प्राकृतत्वादाकारः | सर्वम्-अप्राशुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापमिति योगः, मच्छति' याति कुगतिमिति शेषः॥ दीप अनुक्रम % [७५० % -७६२] * SamEducatminer For Pro पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~458~
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy