________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१९], मूलं [-] / गाथा ||२४-४३|| नियुक्ति : [४१४...]
प्रत
सूत्रांक
||२४-४३||
सा चासौ दृष्टिश्चैकान्तदृष्टिस्तया-अनन्याक्षिप्तया, अहिपक्षे दशा, अन्यत्र तु बुझ्योपलक्षितम्, एकान्त- मृगापुत्रीभारष्टिकं वा चारित्रं दुश्चरं, विषयेभ्यो मनसो दुर्निवारत्वादिति भावः, 'जया लोहमया चेव'त्ति एवकारस्योपमार्थ
या०१९ बृहद्वृत्तिः । त्वाद्यवा लोहमया इव चर्वयितव्याः, किमुक्तं भवति -लोहमययवचर्वणवत्सुदुष्करं चारित्रम् ॥ 'अग्निशिखा'
अग्निज्वाला 'दीसे' त्युज्ज्वला ज्वालाकराला वा, द्वितीयार्थे चात्र प्रथमा, ततो यथाऽग्निशिखां दीसां पातुं सुदुष्करं, है नृभिरिति गम्यते, यदिवा लिङ्गव्यत्ययात् सर्वधात्वर्थत्वाच करोतेः 'सुदुष्करा' सुदुःशका यथाऽग्निशिखा दीसा
पातुं भवतीति योगः, एवमुत्तरत्रापि भावना, 'जे' इति निपातः सर्वत्र पूरणे, कोत्थल इह वस्त्रकम्बलादिमयो ,
गृह्यते, चर्ममयो हि सुखेनैव नियेतेति, 'क्लीवेन' निःसत्त्वेन 'निभृतं निःशक' मित्यत्र निभृतं-निश्चल विषयाभिKलापादिभिरक्षोभ्यं 'निःश' शरीरादिनिरपेक्षं शङ्काख्यसम्यक्त्वातिचारविरहितं वा ॥ १८ 'अनुपशान्तेन' उत्क-४
टकषायेण, इह च दमसागर इत्यनेन प्राधान्यख्यापनार्थ केवलस्यैवोपशमस्य समुद्रोपमाभिधानं, पूर्वत्र तु गुणोदधिरित्यनेन निःशेषगुणानामिति न पौनरुक्त्यं ॥ यतश्चैवं तारुण्ये दुष्करा प्रव्रज्याऽतो भुजेत्यादिना पितरौ कृत्योपदेशं ब्रूतः, भुज्यन्त इति भोगास्तान् 'पञ्चलक्षणकान्' शब्दादिपञ्चकखरूपान् 'ततः' इति भोगभुक्तेरनन्तरं 'जाय'त्ति जातपुत्रः 'पश्चादिति वार्धक्ये 'चरिस्ससित्ति चरेरिति विंशतिसूत्रावयवार्थः ॥ २४-४३ ॥ सम्प्रति तद्वचनानन्तरं यन्मृगापुत्र उक्तवांस्तदाह
दीप अनुक्रम [६३०-६५७]
॥४५७॥
SamEducatimotimatent
For
at
warjunothianarm
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~415