SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१९], मूलं [-] / गाथा ||९|| नियुक्ति : [४१३...] प्रत सूत्रांक ||९|| 'चः पुनरर्थः 'अम्मापियति अम्मा(म्बा)पितरौ 'उपागम्य' उपसृत्य 'इदम्' अनन्तरवक्ष्यमाणं वचनम् 'अब्रवीत इत्याह, इति सूत्रार्थः ॥ किं तदब्रवीदित्याह सुआणि मे पंच महब्वयाणि, नरएसु दुक्खं च तिरिक्वजोणिसु । निविण्णकामो मि महण्णवाओ, अणुजाणह पध्वइस्सामि अम्मो! ॥१०॥ 'श्रुतानि' आकर्णितानि, अन्यजन्मनीत्यभिप्रायः, 'मे' मया 'पञ्च' इति पञ्चसङ्ख्यानि 'महाव्रतानि' हिंसाविरम-15 दणादीनि, तथा नरकेषु 'दुःखं च' असातमिहैव वक्ष्यमाणं 'तिरिक्खजोणिसुत्ति चशब्दस्याप्रयुज्यमानस्यापि “अह-14 रिहर्नयमानो गामश्वं पुरुषं पशुम्" इत्यादाविय गम्यमानत्वात् तिर्यग्योनिषु च, सर्वत्र चायं न्यायो द्रष्टव्यः, उपलक्षणं चैतद् देवमनुष्यभवयोः, ततः किमित्याह-णिविण्णकामोमि'त्ति निर्विण्णकामः' प्रतिनि-4 वृत्ताभिलापोऽस्म्यहं, कुतः ?-महार्णव इव महार्णवः-संसारस्तस्माद्, यतश्चैवमतः 'अनुजानीत' अनुमन्यध्वं, मामिति शेषः, 'पञ्चइस्सामी ति प्रत्रजिष्यामि 'अम्मो'त्ति पूज्यतरत्वाद्विशिष्टप्रतिबन्धास्पदत्वाच मातुरामवणं, यो हि भविष्यदुःखं नावैति तत्प्रतिकारहेतुं वा स कदाचिदित्थमेवासीत, अहं तूभयत्रापि विज्ञ इति कथं न । दुःखप्रतीकारोपायभूतां महाव्रतात्मिकां प्रव्रज्या प्रतिपत्स्य इति सूत्रगर्भार्थः ॥ अमुमेवार्थमनुवादतः स्पष्टयितुमाह दीप अनुक्रम [६२३] नियुक्तिकृत् matt For at पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~406~
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy