________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१८], मूलं [-1 / गाथा ||३४-५०|| नियुक्ति: [४०३...]
प्रत सूत्रांक
||३४
-५०||
दीनानाथादिदानोत्थया प्रसिद्धयोपलक्षितः सन् , यद्वा अनार्ता-सकलदोषविगमतोऽवाधिता कीर्तिरखेत्यनातकीर्तिः सन् , पठ्यते च 'आणटाकिइपबत्ति, आज्ञा-आगमोऽर्थशब्दस्य हेतुवचनस्यापि दर्शनादर्थो-हेतुरस्याः सा तथाविधा आकृतिरान्मुनिवेषात्मिका यत्र तदाज्ञार्थाकृति यथा भवत्येवं प्रात्राजीद्गुणैः-राज्यगुणैः शब्दादिभिवों समृद्धं-संपन्नं गुणसमृद्ध, पूर्वत्र तुशब्दस्थापिशब्दार्थत्वाधवहितसम्बन्धत्वाच गुणसमृद्धमपि । तथा 'अदाय'त्ति आर्षत्वाद् 'आदित' गृहीतवांस्तद्गमनेन स्वीकृतवान् शिरसेव शिरसा शिरःप्रदानेनेव जीवितनिरपेक्षमिति योऽर्थः, 'शिरति शिर इव शिरः सर्वजगदुपरिवर्णितया मोक्षः, पठ्यते च-'आदाय सिरसो सिरिंति, अन च आदाय' गृहीत्वा 'शिरः श्रियं' सर्वोत्तमां केवललक्ष्मी परिनिर्वृत इति शेषः, इति सप्तदशसूत्रार्थः ॥ इत्थं महापुरुषोदाहरणेानपूर्वकक्रियामाहात्म्यमभिधायोपदेष्टुमाह
कहं धीरो अहेऊहिं, उम्मत्तो व्च महिं चरे। एए विसेसमादाय, सूरा दढपरकमा ॥५१॥ 'क' केन प्रकारेण 'धीरः' उक्तरूपः 'अहेतुभिः' क्रियावाद्यादिपरिकल्पितकुहेतुभिः 'उन्मत्त इव' ग्रहगृहीत इस तात्त्विकवस्त्वपलपनेनालजालभाषितया 'महीं पृथ्वी 'चरेत्' भ्रमेत् ?, नैव चरेदित्यर्थः, किमिति !, ये 'एते अनन्तरोदिता भरतादयः 'विशेष' विशिष्टतां गम्यमानत्वान्मिथ्यादर्शनेभ्यो जिनशासनस्य 'आदाय' गृहीत्वा मनसि संप्रधायतियावत् शूरा रढपराक्रमा एतदेवाश्रितवन्त इति शेषः, अयमभिप्रायः-यथैते महात्मानो विशेषमादायी
दीप अनुक्रम
[५९३
-६१०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~398