________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१८], मूलं [-] / गाथा ||३२|| नियुक्ति: [४०३...]
*%
%
%
%
प्रत सूत्रांक ||३२||
%
अथवाऽत एव लक्ष्यते यथा 'अप्पणो य परेसिं च' इत्यादिना तस्यायुर्विज्ञतामवगम्य सञ्जयमुनिनाऽसौ पृष्टः | कियन्ममायुरिति, ततोऽसौ प्राहयच्च त्वं मां कालविषयं पृच्छसि तत्प्रादुष्कृतवान् 'बुद्ध' सर्वज्ञोऽत एव तज्ज्ञानं जिनशासने व्यवच्छेदफलत्वाजिनशासन एव न त्वन्यस्मिन् सुगतादिशासने,अतो जिनशासन एव यत्नो विधेयो येन यथाऽहं जानामि तथा त्वमपि जानीये, शेष प्राग्वदिति सूत्रार्थः । पुनरुपदेष्टुमाह
किरियं च रोअए धीरो, अकिरियं परिवजए । दिट्ठीए दिहिसंपन्नो, धम्मं चरसु दुचरं ॥ ३३ ॥ A 'क्रियां च' अस्ति जीव इत्यादिरूपां सदनुष्ठानात्मिकां वा रोचयेत्' तथा तथा भावनातो यथाऽसावात्मने रुचिता
जायते तथा विदध्यात् 'धीरः' मिथ्याग्भिरक्षोभ्यः, तथा 'अक्रियां' नास्त्यात्मेत्यादिकां मिथ्यापरिकल्पिततत्तदनुष्ठानरूपां वा 'परिवर्जयेत् परिहरेत् , ततश्च 'दृष्ट्या' सम्यग्दर्शनात्मिकया हेतुभूतया 'दिद्विसंपन्नो'त्ति "धीदृष्टिः शेमुषी धिपणा" इति शाब्दिकश्रुतेदृष्टिः-बुद्धिः, सा चेह प्रस्तावात्सम्यगुज्ञानात्मिका तया संपन्नोयुक्तो दृष्टिसंपन्नः, एवं च सम्यग्दर्शनज्ञानान्वितः सन् 'धर्म' चारित्रधर्म 'चर' आसेवख 'सुदुश्चरम्' अत्यन्तदुरनुठेयमिति सूत्रार्थः । पुनः क्षत्रियमुनिरेव सञ्जयमुनि महापुरुषोदाहरणैः स्थिरीकर्तुमाह| एवं पुण्णपर्य सुच्चा, अत्थधम्मोवसोहियं । भरहोऽवि भारहं वासं, चिचा कामाई पब्बए॥ ३४ ॥सगरोऽपि सागरंतं, भरहवासं नराहियो । इस्सरियं केवलं हिचा, दयाए परिनिव्वुडे ॥ ३५ ॥ चहत्ता भारहं वासं,
%
दीप
%
%
अनुक्रम [५९१]
%
%
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~394