________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१८], मूलं [-] / गाथा ||२३|| नियुक्ति: [४०३...]
****
प्रत सूत्रांक
*
||२३||
लाक्षणिकपक्षस्य तु सामुच्छेदिकनिह्नववक्तव्यतायामेवोन्मूलितत्वादिति २। विनयवादिनो विनयादेय मुक्तिमिच्छन्ति. कायत उक्त-"नयिकवादिनो नाम येषां सुरासुरनृपतपखिकरितुरगहरिणगोमहिष्यजाविकश्वशृगालजलचरकपोतका-IN
कोलूकचटकप्रभृतिभ्यो नमस्कारकरणात् क्लेशनाशोऽभिप्रेतो, विनयाच्छ्यो भवति नान्यथेत्यध्यवसिताः" एतेऽपि न टू विचारसहिष्णवो, न हि विनयमानादिहापि विशिष्टानुष्ठानविकलादभिलषितार्थावाप्तिरवलोक्यते, नापि चैषां विन
याहत्वं, येन पारलौकिकश्रेयोहेतुता भवेत् , तथाहि-लोकसमयवेदेषु गुणाभ्यधिकस्यैव विनयाहत्वमिति प्रसिद्धिः, गुणास्तु तत्त्वतो ज्ञानध्यानानुष्ठानात्मका एव, न च सुरादीनामज्ञानाश्रवाविरमणादिदोषदूपितानामेतेष्वन्यतरस्यापि |गुणस्य सम्भव इति कथं यदृच्छया विधीयमानस्य तस्य श्रेयोहेतुतेति? ३। अज्ञानवादिनस्त्याहुः-यथेदं जगत् कैश्चिद् ॥ ब्रह्मादिविवर्त इष्यते, अन्यैः प्रकृतिपुरुषात्मकमपरैर्द्रव्यादिपभेदं तदपरैश्चतुरार्यसत्यात्मकमितरैर्विज्ञानमयमन्यैस्तु शून्यमेवेत्यनेकधा भिन्नाः पन्थानः, तथाऽऽत्माऽपि नित्यानित्यादिभेदतोऽनेकधैवोच्यते, तत्को ह्येतद्वेद किंचानेन ज्ञातेन !, अपवर्ग प्रत्यनुपयोगित्वात् ज्ञानस्य, केवलं कष्टं तप एवानुष्ठेयं, न हि कष्टं विनेष्टसिद्धिः, तथा चाह-'अज्ञानिका नाम येषामियमुपधृतिः, यथेह ज्ञानाधिगमप्रयासोऽपवर्ग प्रति अकिञ्चित्करो, घोरततपोभिरपवर्गोऽवाप्यते'
इति । विचारासहत्वं चैषां विज्ञानरहितस्य महतोऽपि कष्टस्य तिर्यग्नारकादीनामियापवर्ग प्रत्यहेतुत्वात् , तदन्तधारण व्रततपोपसर्गादीनामपि खरूपापरिज्ञानतः क्वचित्प्रवृत्त्यसम्भवादिति । एषां च क्रियावादिनामुत्तरोत्तरभेदतोऽने
*
दीप अनुक्रम [५८२]
SamEducatin international
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~388~