SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१७], मूलं [-] / गाथा ||१-२|| नियुक्ति: [३९१...] 1%- प्रत सूत्रांक ||१-२|| मे ममास्ति, किञ्च-'उत्पद्यते' जायते 'भोक्तुं' भोजनाय तथैव 'पातुं' पानाय यथाक्रममशनं पानं चेति शेषः,॥ तथा 'जानामि' अवगच्छामि यद्वर्त्तते' यदिदानीमस्ति 'आयुष्मन्निति प्रेरयितुरामन्त्रणमिति, एतस्माद्धेतोः किं नाम ?,|| न किञ्चिदित्यर्थः, 'काहामि'त्ति करिष्यामि 'श्रुतेन' आगमेनाधीतेनेत्यध्याहारः, 'भंतेत्ति पूज्यामन्त्रणम् , इह च || प्रक्रमात्क्षेपे, अयं हि किलास्याशयो यथा ये भवन्तो भदन्ता अधीयन्ते तेऽपि नातीन्द्रियं वस्तु किञ्चनावबुध्यन्ते, किन्तु ?, साम्प्रतमात्रेक्षिण एव, तचेतावदस्माखेवमप्यस्ति, तत्किं हृदयगलतालुशोपविधायिनाऽधीतेनेति !, एवम-16 ध्ययसितो यः स पापश्रमण इत्युच्यत इतीहापि सिंहावलोकितन्यायेन संबध्यत इति सूत्रद्वयार्थः ॥ किंच जे केइ उ पवईए, निद्दासीले पगामसो। भुचा पिचा मुहं सुअई, पावसमणित्ति बुचई ॥३॥ यः कश्चित्प्रत्रजितः 'निद्राशीलः' निद्रालुः 'प्रकामशः' बहुशो 'भुक्त्वा' दध्योदनादि 'पीत्वा' तक्रादि 'सुखं यथा भवत्येवं सकलक्रियानुष्ठाननिरपेक्ष एव 'खपिति' शेते, पठ्यते च-वसइ'त्ति 'वसति' आस्ते प्रामादिषु, स| 8 इत्यम्भूतः किमित्याह-पापश्रमण इति 'उच्यते' प्रतिपाद्यत इति सूत्रार्थः ॥ इत्थं न केवलमनधीयान एव पापश्रमण उच्यते, किन्तु आयरियउवज्झाएहि, सुझं विणयं च गाहिए। ते चेव खिसई वाले, पावसमणित्ति बुचई ॥४॥ आचार्योपाध्यायैः श्रुतम्' आगममर्थतः शब्दतश्च 'विनयं च उक्तरूपं 'ग्राहितः' शिक्षितो यैरिति गम्यते । -----44 है दीप अनुक्रम [५३९-५४०] ECAN SamEducation tntamatuna Furammarwata tiwand पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~366~
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy