________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [६], मूलं [-1 / गाथा ||१०|| नियुक्ति : [२४३...]
प्रत सूत्रांक ||१०||
भणंता अकरिता य, बंधमोक्खपइण्णिणो । वायाविरियमेत्तेणं, समासासेंति अप्पगं ॥१०॥ व्याख्या-भणन्तः प्रतिपादयन्तः, प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति, 'अकुर्वन्तश्च मुक्त्युपायमनुष्ठान, बन्धमोक्षी-|| उक्तरूपी तयोः प्रतिज्ञा-अभ्युपगमः तद्वन्तः, सूत्रत्वाचेना निर्देश, अस्ति बन्धोऽस्ति च मोक्ष इत्येवंवादिन एवली केवलं, न तु तथाऽनुष्ठायिनः, वाचि वीर्यम्-आत्मशक्तिर्वाग्वीर्य वाचालतेति यावत् , तदेवानुष्ठानशून्यं वाग्वीमात्रं तेन 'समाश्वासयन्ति' विज्ञानादेव वयं मुक्तिगामिन इति स्वास्थ्यं प्रापयन्ति, कम् ?-आत्मानमिति सूत्रार्थः॥ यथा चैतन्त्र चारु तथा खत एवाहहै। न चित्ता तायए भासा, कओ विजाणुसासणं । विसपणा पावकम्मेहिं, बाला पंडियमाणिणो ॥११॥
व्याख्या-'न' नैव 'चित्रा' प्राकृतसंस्कृतादिरूपा आर्यविषयं ज्ञानमेव मुक्त्यङ्गमित्यादिका वा 'त्रायते' रक्षति, पापेभ्य इति गम्यते, केत्याह-भाष्यत इति भाषा-वचनामिका, स्यादेतत्-अचिन्त्यो हि मणिमत्रमहौषधीनां । प्रभाव इत्यघोरादिमन्त्रात्मिका वाक् त्राणाय भविष्यतीत्साह, कुतो ? विदन्त्यनया तत्वमिति विद्या-विचित्रमन्त्रात्मिका तस्या अनुशासनं-शिक्षणं विद्यानुशासनं त्रायते पापाद्भवाद्वा ?, न कुतोऽपि, तन्मात्रादेव मुक्ती शेषानुष्ठान
वैयर्यप्रसङ्गादिति भावः । अत एव ये तदपि त्राणायेति वदन्ति ते यारशास्तदेवाह-विविधम्-अनेकप्रकारं सन्नादामना विषण्णाः , केपु ?-'पावकम्महि ति पापकर्मसु पापहेतुपु हिंसायनुष्ठानेषु, सततं तत्कारितयेति भावः, यद्वा |
दीप अनुक्रम [१७०]
mating
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~35