________________
आगम
(४३)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम
[५१२]
उत्तराध्य.
बृहद्वृत्तिः
॥४२३॥
सूद
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [१६],
मूलं [१] / गाथा || --II
निर्युक्ति: [३८५...]
कतराणीत्यादिप्रश्नसूत्रम् इमानीत्यादि निर्वाचनसूत्रं च प्राग्वत्, तान्येवाह - 'तं जहे' त्यादि, 'तद्यथे' त्युपन्यासे 'विविक्तानि ' स्त्रीपशुपण्डकाकीर्णत्वविरहितानि शय्यते येषु तानि शयनानि च - फलकसंस्तारकादीनि, आस्यते | येषु तानि आसनानि च -- पादपीठपुज्छनादीनि शयनासनानि, उपलक्षणत्वात्स्थानानि च 'सेवेत' भजेत यः सः 'निर्ग्रन्थः ' द्रव्यभावग्रन्थान्निष्क्रान्तो भवतीति शेषः । इत्थमन्वयेनाभिधायाव्युत्पन्नविनेयानुग्रहाया मुमेवार्थं व्यतिरे केणाह 'नो' नैव स्त्रियश्च - दिव्या मानुष्यो वा पशवश्च - अजैडकादयः पण्डकाश्च - नपुंसकानि स्त्रीपशुपण्डकास्तैः | संसक्तानि - आकीर्णानि स्त्रीपशुपण्डकसंसक्तानि शयनासनानि' उक्तरूपाणि 'सेविता' उपभोक्ता भवति, 'तदित्यनन्तरोक्तं 'कथं' केनोपपत्तिप्रकारेण ?, 'इति चेद' एवं यदि मन्यसे, अत्रोच्यते-निर्ग्रन्थस्य खलु निश्चितं स्त्रीपशुपगण्डकसंसक्तानि शयनासनानि 'सेवमानस्य' उपभुञ्जानस्य 'वंभयारिस्स' त्ति अपिशब्दस्य गम्यमानत्वाद् ब्रह्मचारिणोऽपि सतो ब्रह्मचर्ये 'शङ्का वा' किमेताः सेवे उत नेत्येवंरूपा, यदिवा इहाम्येपामिति गम्यते, ततः शङ्का वाऽन्येषां - यथा किमसावेवंविधशयनासनसेवी ब्रह्मचार्युत नेति, 'काङ्क्षा' वा ख्याद्यभिलापरूपा 'विचिकित्सा' वा धर्म प्रति चितविश्रुतिः 'समुत्पद्यते' जायते, अथवा शङ्का ख्यादिभिरत्यन्तापहृतचित्ततया विस्मृतसकलाप्तोपदेशस्य “सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः ॥ १॥" इत्यादिकुविकल्पान् विकल्पयतो | मिथ्यात्वोदयतः कदाचिदेतत्परिहार एव न तीथकृद्भिरुक्तो भविष्यति, एतदासेवने वा यो दोष उक्तः स दोष एव न
Eguration Intemational
For Permal & Pre Or
दशब्रह्म
समाधिः१६
~347~
॥४२३॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः