________________
आगम
(४३)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [१६८]
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||८|| निर्युक्तिः [२४३...]
अध्ययनं [६],
यावत्,
कर्मणि ल्युद्र, आर्पत्वादादानीयं वा, नरककारणत्वान्नरकं दृष्ट्वा, किमित्याह - 'नाददीत' न गृह्णीत न स्वीकुर्यादिति'तणामवि'ति तृणमपि, आस्तां रजतरूप्यादि, कथं तर्हि प्राणधारणमित्याह - 'दोगुंछी' त्याद्यर्ध, जुगुप्सते आत्मानमाहारं विना धर्मधुराधरणाक्षममित्येवंशीलो जुगुप्सी, आत्मनः इति आत्मसम्बन्धिनि पात्रे - भाजने प्राप्ते वा भोजनसमय इति शेषः, 'दत्तं' निसृष्टं, गृहस्थैरिति गम्यते, 'भुंजेज'त्ति भुञ्जीत भोजनम् - आहारं, अनेनाहारस्वापि भावतोऽखीकरणमाह, जुगुप्सिशब्देन तदप्रतिबन्धदर्शनात्, ततश्च परिग्रहाश्रवनिरोध उक्तः, तदेवं 'तन्मध्यपतितस्तद्वहणेन गृह्यत' इति न्यायात् मृषावादादत्तादानमैथुनात्मका श्रयत्रय निरोध उक्तः, यद्वा 'सत्यमिच्छेदि 'ति | सत्यशब्देन साक्षात्संयममपि वदता मृषावादनिवृत्तिराक्षिप्ता, तद्वारेणापि तस्य सत्यत्वात्, आदानमित्यादिना तु साक्षाददत्तादानविरतिरुक्ता, आदानं हि ग्रहणमेव रूढं, तचादत्तस्येति गम्यते, तं 'नरक' नरकहेतुं दृष्ट्वा नाददीत तृणमप्यदत्तमितीहापि गम्यते, 'गवास 'मित्यादिना तु परिग्रहाश्रवनिरोधः, तन्निरोधाभिधानाच नापरिगृहीता स्त्री भुज्यत इतिकृत्वा मैथुनाश्रवनिरोधोऽप्युक्त एव । नन्वेवं स्वयं त्यक्तगवादिपरिग्रहस्य परकीयं चानाददानस्य कथं प्राणवृत्तिः १, इत्साह - जुगुप्स्यात्मनः पात्रे दत्तं भुञ्जीत भोजनमिति, पात्रग्रहणं तु व्याख्याद्वयेऽपि मा भूत् निष्परिग्रहतया पात्रस्याप्यग्रहणमिति कस्यचिद् व्यामोह इति ख्यापनार्थ, तदपरिग्रहे हि तथाविधलब्ध्याद्यभावेन पाणिभोक्तृत्वाभावाद्वहिभाजन एवं भोजनं भवेत्, तत्र च बहुदोपसम्भवः, तथा च शय्यम्भवाचार्यः "पेच्छा
For Parsons Private Use Onl
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 33~