________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [१३], मूलं [-] / गाथा ||३२|| नियुक्ति: [३५५...]
*
*-
*-
प्रत
सूत्रांक
||३२||
धर्मस्वापि सम्यक्त्वदेशविरतिरूपस्य देवलोकफलत्वेनोक्तत्वादिति भाव इति सूत्रार्थः ॥ एवमुक्तोऽपि यदाऽसौ न र किश्चित्प्रतिपद्यते तदा तदविनेयतामवधार्य मुनिराह
न तुज्झ भोगे चईऊण बुद्धी, गिद्धोऽसि आरंभपरिग्गहेसुं।
मोहं कओ इत्तिउ विप्पलावो, गच्छामि रायं ! आमंतिओऽसि ॥ ३३ ॥ 'नेति प्रतिषेधे तब 'भोगान्' शब्दादीन् , उपलक्षणत्वादनार्यकर्माणि वा, 'चइऊणत्ति त्यक्तुं, यद्वा सोपस्कादरत्वाद्भोगांस्त्यक्त्वा धर्मो मया विधेय इति 'बुद्धिः' अवगतिः, किन्तु 'गृद्धः' मूञ्छितः 'असि' भवसि, केषु ?
'आरम्भपरिग्रहेषु' अबद्यहेतुषु व्यापारेषु चतुष्पदद्विपदादिखीकारेषु च, 'मोहंति मोघं निष्फलं यथा भवति एवं, सुब्ब्यत्ययाद्वा मोघो-निष्फलो मोहेन वा-पूर्वजन्मनि मम भ्राताऽऽसीदिति नेहलक्षणेन 'कृतः' विहितः एतान् । 'विप्रलापः' विविधव्यर्थवचनोपन्यासात्मकः, सम्प्रति तु 'गच्छामि' ब्रजामि राजन् ! आमन्त्रितः-संभाषितः, अने-४ कार्थत्वाद्धातूनां पृष्टो वा 'असि' भवसि, अयमाशयः-अनेकधा जीवितानित्यत्वादिदर्शनद्वारेणानुशिष्यमाणस्यापि
ते न मनागपि विषयविरक्तिरित्यविनेयत्वादुपेक्षेव श्रेयस्करी, उक्तं हि "मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वद गुणाधिकक्लिश्यमानाविनेयेपु" (तत्त्वा० अ० ७-सू०-६) इति सूत्रार्थः ॥ इत्थमुक्त्वा गते मुनी ब्रह्मदत्तस्य है यदभूतदाह
दीप अनुक्रम [४३८]
For
Prato
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~284