SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३६] “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [-] / गाथा ||३२...|| नियुक्ति: [२४०] प्रत सूत्रांक ||३२|| त्मानं कर्मणेति ग्रन्थः, तद्वैविध्यमेवाह-बहिर्मवो बायोऽभ्यन्तरश्च 'ज्ञातव्यः' अवबोद्धव्यः, तत्र च 'अंतो अति द अन्तःशब्दोऽधिकरणप्रधानमव्ययं, चः पूरणे, ततश्चान्तरिति मध्ये यो ग्रन्थोऽभ्यन्तर इत्यर्थः, स किमित्याह-'चतु देशविधः' चतुर्दशभेदो 'दशधा' दशप्रकारः, पुनःशब्दो विशेषद्योतकः, 'बाहिरो'त्ति बायो ग्रन्थ इति गाथार्थः ॥ तत्रान्तरस्य चतुर्दश भेदानाहलि कोहो माणो माया लोभे पिजे तहेव दोसे य । मिच्छत्त वेअ अरइ रइ हास सोगे य दुग्गंछा ॥ २४१॥ व्याख्या-क्रोधः' अप्रीतिलक्षणः, 'मानः' अहमितिप्रत्ययहेतुः, 'माया' खपरव्यामोहोत्पादकं शाठ्यं, 'लोभो द्रव्याद्यभिकाला, 'प्रेम' प्रियेषु प्रीतिहेतुः, तथैवे' त्यान्तरग्रन्धरूप एव, कोऽसौ ?-'दोषश्च' उपशमत्यागात्मको विकारो, द्वेष इत्यर्थः । इह च यद्यपि प्रेम मायालोमरूपं द्वेषश्च क्रोधमानात्मकः तथापि तयोः पृथगुपादानं कथञ्चित् सामान्यस्य विशेषेभ्योऽन्यत्वख्यापनार्थ, 'मिथ्यात्वं' तत्त्वार्थाश्रद्धानं, तब पडिः स्थानैर्भवति, तानि च नास्ति न नित्य इत्यादीनि, तदुक्तम्-"त्थि ण णिचो ण कुणति कयं ण वेएति पत्थि वाणं । णत्थि य मोक्खोवाओ छम्मिच्छतस्स ठाणाई ॥१॥" 'वेदः स्त्रीवेदादिविधा, 'अरतिः' संयमेऽप्रीतिः, 'रतिः' असंयमे प्रीतिः, आह च-"इत्थीवेयाईओ तिविहो वेओ य होइ बोद्धयो । अरती य संजमंमी होइ रती संजमे यावि ॥१॥" 'हासो' विस्मयादिषु नासि न नित्यो न करोति कृतं न वेदयति नास्ति निर्वाणम् । नास्ति च मोक्षोपायः षट् मिथ्यात्वस्य स्थानानि ।। १ ॥२ स्त्रीवेदाहै|दिकत्रिविधी वेदश्च भवति बोद्धव्यः । अरतिश्च संयमे भवति रतिः असंयमे पापि ॥ १॥ दीप अनुक्रम [१६०] SamEducatimotimatent FarramanaSPrwanatimony पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~23.
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy