________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [१२], मूलं [-] / गाथा ||१४|| नियुक्ति: [३२७...]
प्रत
सूत्रांक ||१४||
ब्राह्मणानां 'मोसं'ति मृषा-अलीकभाषणं 'अदत्तं ति पदेऽपि पदैकदेशस्य दर्शनात्सत्यभामा ससेतिवत् अदपत्तादानमुक्तं, चशब्दान्मैथुनं, 'परिग्रहश्च' गोभूम्यादिस्वीकारः, अस्तीति सर्वत्र गम्यते, 'ते' इति क्रोधाधुपेता यूयं
ब्राह्मणा जातिविद्याभ्यां विहीना-रहिता जातिविद्याविहीनाः, क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था, यत । उक्तम्-“एकवर्णमिदं सर्व, पूर्वमासीधुधिष्ठिर ! क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥ १॥ ब्राह्मणो ब्रह्म-4 चर्येण, यथा शिल्पेन शिल्पिकः । अन्यथा नाममात्र स्थादिन्द्रगोपककीटवत् ॥ २॥" न चैवंविधक्रिया ब्रह्मच-8
त्मिका कोपायुपेतेपु तत्त्वतः सम्भयत्यतो न तावजातिसम्भवः, तथा विद्यापि सच्छास्वात्मिका, सच्छास्त्रेषु च । सर्वेष्वहिंसादिपञ्चकमेव वाच्यं, यत उक्तम्-“पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥ १॥" तद्युक्तत्वं च तत्तज्ज्ञानादेव भवति, ज्ञानस तु विरतिः फलं रागाधभावश्च, यत उक्तम् WI-"तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति ? शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥१॥"
न चैवमन्याद्यारम्भिषु कोपादिमत्सु च भवत्सु विरते रागाधभावस्य च सम्भवोऽस्ति, न च निश्चयनयमतेन फलर18 हितं वस्तु सत् , तथा च निश्चयो यदेवार्थक्रियाकारि तदेव परमार्थसदित्याह, ततः स्थितमेतत्-'ताई तु'त्ति तुरविधारणे भिन्नक्रमश्च, ततश्च तानि भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि,
दीप अनुक्रम [३७३]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~224