________________
आगम
(४३)
प्रत
सूत्रांक
॥१०॥
दीप
अनुक्रम [३६९]
Jan Education intemation
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||१०|| निर्युक्तिः [३२७...]
अध्ययनं [१२],
वियरिज खज्जइ भुजई य, अन्नं पनूयं भवयाणमेयं । जाणाहि मे जायणजीविणुत्ति, सेसावसेसं लहओ तवस्सी ॥ १० ॥
श्रमणो-मुनिः 'अहमित्यात्मनिर्देशः, किमभिधानत एवेत्याशङ्कयाह- सम्यग् यतः संयतः - असद्व्यापारेभ्य उपरतः, अत एव च ब्रह्मचारी ब्रह्मचर्यवान्, तथा विरतो निवृत्तः, कुतो ?-धनं च पचनं च परिग्रहश्च धनपचनपरिग्रहमिति समाहारः तस्मात्, तत्र धनं चतुष्पदादि पचनमाहारनिष्पादनं परिग्रहो द्रव्यादिषु मूर्च्छा, अत एव च परस्मै प्रवृत्तंपरैः खार्थ निष्पादितत्वेन परप्रवृत्तं तस्य तुरवधारणे, ततः परप्रवृत्तस्यैव, न तु मदर्थं साधितस्येति भावः, 'भिक्षाकाले' भिक्षाप्रस्तावे, कदाचिदकालोऽयं ब्रूयादित्येवमुक्तं, 'अन्नस्य' अशनस्य 'अटु'त्ति सूत्रत्वादर्थाय भोजनार्थमिति भावः, 'इह' अस्मिन् यज्ञवाटके आगतोऽस्मि, अनेन यदुक्तं-कतर त्वं किमिहागतोऽसि ?, तत्प्रतिवचनमुक्तम्, एवमुक्ते च ते कदाचिदभिदध्युः - नेह किञ्चित् कस्मैचिद्दीयते न वा देयमस्त्यत आह- 'वितीर्यते' दीयते दीनानाथा| दिभ्यः खाद्यते खण्डखाद्यादि, भुज्यते च भक्तसूपादि, अद्यत इत्यन्नं स सर्वमपि सामान्येनोच्यते, तदप्यल्पमेव स्वादत आह-'प्रभूतं' बहु प्रभूतमपि परकीयमेव स्यात्, अत आह- 'भक्तां' युष्माकमेव सम्बन्धि 'एतदिति प्रत्यक्षं, तथा च 'जानीत' अवगच्छत 'मे'त्ति सूत्रत्वान्मां 'जायणजीविणोति याचनेन जीवनं प्राणधारणमस्येति याचन
For Parana Privat
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~220~