SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [११], मूलं [-] / गाथा ||२६|| नियुक्ति: [३१७] % 23-452-% प्रत सूत्रांक ||२६|| मिव गच्छवासिनामुपयोगिभिर्नानाधान्यैरिवाजोपाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्ण एव भवति, सुरक्षितश्च प्रवचनाधारतया, यत उक्तम्-"जेणे कुलं आयत्तं तं पुरिसं आयरेण रक्खेह" इत्यादीति सूत्रार्थः । अपि च जहा सा दुमाण पवरा, जंबूनाम सुदसणा । अणाढियस्स देवस्स, एवं हवइ बहुस्सुए ॥ २७ ॥ व्याख्या-यथा सा द्रुमाणां मध्ये प्रवरा-प्रधाना जम्बूः नाना-अभिधानेन सुदर्शना नाम सुदर्शना, न हि यथेयममृतोपमफला देवाद्याश्रयश्च तथाऽन्यः कश्चिद् हुमोऽस्ति, द्रुमत्वं फलव्यवहारश्चास्यास्तत्प्रतिरूपतयैव, वस्तुतः पार्थिवत्वेनोक्तत्वात् , वज्रवैडूर्यादिमयानि हि तन्मूलादीनि तत्र तत्रोक्तानि, सा च कस्खेत्याह-'अनाहतस्य' अनाहतनाम्रो 'देवस्य' जम्बूद्वीपाधिपतेय॑न्तरसुरस्य आश्रयत्वेन सम्बन्धिनी, एवं भवति बहुश्रुतः, सोऽपि यस्तोपमफलकल्पश्रुतान्वितो देवादीनामपि च पूज्यतयाऽभिगमनीयः शेषट्ठमोपमसाधुषु च प्रधान इति सूत्रार्थः ॥ अन्यच्च जहा सा नईण पवरा, सलिला सागरंगमा । सीया नीलवंतपवहा, एवं हवह बहुस्सुए ॥२८॥ व्याख्या-यथा सा 'नदीनां' सरितां 'प्रवरा प्रधाना सलिलं-जलमस्यामस्तीति, अर्शआदेराकृतिगणत्वादचि १ यस्मिन् कुलं स्वाधीनं तं पुरुषमादरेण रक्ष दीप अनुक्रम [३५२] 69- For Prato पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~ 204~
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy