________________
आगम (४३)
प्रत
सूत्रांक ||६-१३|| |
दीप
अनुक्रम [333
-३४०]
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||६-१३|| निर्युक्ति: [३१७]
अध्ययनं [११],
त्याह- 'अभीक्ष्णं' पुनः पुनः, यद्वा-क्षणं क्षणमभि अभिक्षणम् - अनवरतं 'क्रोधी' क्रोधनः भवति, सनिमित्तमनिमित्तं वा कुप्यन्ने वास्ते, 'प्रबन्धं च' प्रकृतत्वात् कोपस्यैवाविच्छेदात्मकं 'पकुवइ' त्ति प्रकर्षेण कुरुते, कुपितः सन् सान्त्वनैरनेकैरपि नोपशाम्यति, विकथादिषु याऽविच्छेदेन प्रवर्तनं प्रबन्धस्तं च प्रकुरुते तथा 'मेत्तिजमाणो त्ति मित्रीय्यमाणोऽपि मित्रं ममायमस्त्वितीप्यमाणोऽपि अपिशब्दस्य लुप्तनिर्दिष्टत्वात् 'वमति' त्यजति, प्रस्तावान्मित्रयितारं मैत्रीं या, किमुक्तं भवति ? - यदि कश्विद्धार्मिकतया यक्ति यथा त्वं न वेत्सिीत्यहं तब पात्रं लेपयामि, ततोऽसौ प्रत्युपकार भीरुतया प्रतिवक्ति-ममालमेतेन कृतमपि वा कृतनतया न मन्यत इति वमतीत्युच्यते, तथा 'सुर्य'ति अपेर्गम्यमानत्वात् श्रुतमपि आगममपि 'उच्च्या' प्राप्य 'मायति' दर्प याति, किमुक्तं भवति ?- श्रुतं हि मदापहारहेतुः, स तु तेनापि हृप्यति । तथा 'अपिः' सम्भावनायां सम्भाव्यत एतत्, यथाऽसौ पापैः- कथञ्चित् समित्यादिषु स्खलितलक्षणैः परिक्षिपति - तिरस्कुरुत इत्येवंशीलः पापपरिक्षेपी, आचार्यादीनामिति गम्यते, तथा 'अपिः' भिन्नक्रमः, ततः 'मित्रेभ्योऽपि सुहृयोऽप्यास्तामन्येभ्यः 'कुप्यति' क्रुध्यति, सूत्रे तु चतुर्थ्यर्थे सप्तमी, "कुधिदुहेर्ष्याऽसूयार्थानां यं प्रति कोप" ( पा० १-४-३७ ) इत्यनेनेह चतुर्थीविधानात्, तथा 'सुप्रियस्यापि' अतिवल्लभस्यापि मित्रस्य 'रहसि एकान्ते 'भाषते' वक्ति पापमेव पापर्क, किमुक्तं भवति ? - अग्रतः प्रियं वक्ति पृष्ठतस्तु प्रति१ प्राकृतानुकरणमेतत्, मित्रस्येयं मित्रीया तां क्रियमाण इति ।
For Parsons Prat
norary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 192~