SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११], मूलं [-] / गाथा ||३-५|| नियुक्ति: [३१७] प्रत सूत्रांक ||३-५|| माणैर्हेतुभिः-शिक्षणं शिक्षा ग्रहणासेवनात्मिका न लभ्यते' नावाप्यते, तैरीदृशमवहुश्रुतत्वमवाप्यत इति शेषः, कैः पुनः सा न लभ्यते ? इत्याह-'स्तम्भात्' मानात् 'क्रोधात्' कोपात् 'प्रमादेन' मद्यविषयादिना 'रोगेण' गलत्कुष्ठादिना 'आलस्पेन' अनुत्साहात्मना, शिक्षा न लभ्यत इति प्रक्रमः, चः समस्तानां व्यस्तानां च हेतुत्वमेषां द्योतयति ॥ इत्थमबहुश्रुतत्वहेतूनभिधाय बहुश्रुतत्वहेतूनाह-अथाष्टभिः स्थानः शिक्षायां शीलः-खभावो यस्ख शिक्षा या शीलयति-अभ्यस्थतीति शिक्षाशीलः-द्विविधशिक्षाभ्यासकृद्, इतिशब्दः स्वरूपपरामर्शकः, उच्यते तीर्थ-| लकृद्गणधरादिभिरिति गम्यते, तान्येवाह-'अहस्सिरे'त्ति "तृन इर" इति प्राकृतलक्षणादहसनशीलः अहसिता-न सहे तुकमहेतुकं वा हसन्नेवास्ते,'सदा' सर्वकालं 'दान्तः'इन्द्रियनोइन्द्रियदमवान्, 'न च'नैव 'मर्म'परापभाजनाकारि कुत्सितं २ जात्यादि 'उदाहरेत्' उद्घट्टयेत् । 'न' नैव 'अशीलः' अविद्यमानशीलः, सर्वथा विनष्टचारित्रधर्म इत्यर्थः, न 'विशील। विरूपशीलः, अतीचारकलुपितत्रत इतियावत् , 'न खात्' न भवेद्, इह पूर्वत्र च सम्भावने लिट्, 'अतिलोलुपः। । अतीव रसलम्पटः, 'अक्रोधनः' अपराधिन्यनपराधिनि वा न कथञ्चित् क्रुध्यति, सत्यम्-अवितधभाषणं तस्मिन् । रतः-आसक्तः सत्यरतः इति, निगमयितुमाह-शिक्षाशील 'इति' इत्यनन्तरोक्तगुणभाग उच्यते, स च बहुश्रुत एव भवतीति भावः । इह च स्थानप्रक्रमेऽप्येवमभिधानं धर्मधर्मिणोः कथञ्चिदनन्यत्वख्यापनार्थ, विशेषाभिधायिहै त्याच क्वचित् केपाश्चिदन्तर्भावसम्भवेऽपि पृथगुपादानं, परिहारद्वयमपीदमुत्तरत्रापि भावनीयमिति सूत्रत्रयार्थः ॥ दीप अनुक्रम [३३०-३३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~190
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy