SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-1 / गाथा ||६२...|| नियुक्ति: [२८४-३०६] प्रत सूत्रांक ||२|| भेदे विनाशे द्वावप्यावां 'तुल्यौ' मुक्तिपदप्राप्त्या समौ भविष्यावः' इति मा त्वमधृति कृथा इति भावः, 'यथा' येन । प्रकारेण यथा 'मन्ने'त्ति आर्षत्वात् पुरुषव्यत्ययः, ततो मन्यसे त्वम् एनं ज्ञानावासिलक्षणम् 'अर्थ' वस्तु 'वयं' जानीमा अवबुध्यामहे, किंविशिष्टाः सन्तः ? इत्याह-क्षीणः-पुनर्भवाभावतः संसारो येषां ते क्षीणसंसाराः, तेन प्रकारेण तथा, व्यवच्छेदफलत्वात् तथैव, किमित्याह-'मन्नेत्ति प्राग्वत् , मन्यसे 'एनमर्थम्' अनन्तरोक्तं 'विमानवासिनोऽपि' देवा 'जानन्ति' अवबुध्यन्ते, एवं च यथा क्षीणसंसारा जानन्ति तथा विमानवासिनोऽपि जानन्तीत्याशयवतः क्षीणसंसारिणां च परिज्ञानं प्रति साम्यमभिमतमित्यहो तब विवेकितेत्युपालब्धः । तथा 'जाणगपुच्छं'ति ज्ञायकआपृच्छया पृच्छति, न हि तस्य भगवतः समस्तज्ञेयविषयविज्ञानचक्षुषः कचिदविज्ञानमस्ति, किन्तु गौतमं प्रतिबोधयनित्थमुपालभते, तथा यथा किम् ?-दीन्यन्ति-क्रीडन्ति देवाः तेषां वचनं वचो 'गिझं'ति ग्राबमुपादेयम् , 'आतो' (ग्रन्था ८०००)ति आपत्वादाहोखित् , जिनानां वरा:-प्रधानाः जिनवराः य उत्पन्नकेवलातीर्थकृतस्तेषां ?, तद ननैकमस्मत्परिज्ञानस्य देवपरिज्ञानस्य च साम्यापादनम्, अपरं तु साम्ये सत्यपि 'देहस्स य भेयंमी दोण्णिवि तुला 15/भविस्सामो'त्ति अस्मद्वचनतः शतशोऽपि श्रुतान्न विनिश्चयमपि विहितवान् , देववचनात्तु सकृदप्याकर्णितात् तथेति प्रतिपद्याष्टापदं प्रति प्रयात इत्यहो ते मोहविजृम्भितमित्युक्तं भवति । श्रुत्वा तदुपालम्भवचो भगवतः सम्बन्धि 'मिच्छाचारस्स'त्ति आर्पत्वान्मिथ्याचारादू-उक्तरूपाद्गम्यमानत्वात् प्रतिक्रमितुम् 'उपतिष्ठति' उद्यच्छति । 'तन्निश्रये ति 15 दीप अनुक्रम [२९०] SamEditatmilsina पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~146
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy