________________
आगम
(४३)
प्रत
सूत्रांक
||४५
-४६||
दीप
अनुक्रम
[२७३
-२७४]
प्रतराध्य.
बृहद्वृत्तिः ॥३१६॥
Educator
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) निर्युक्ति: [२७९...]
अध्ययनं [९], मूलं [-] / गाथा ||४५-४६ ||
मणयश्च - इन्द्रनीलादयो मुक्ताश्च-मौक्तिकानि मणिमुक्तं, तथा 'काय' कांस्यभाजनादि दूष्यं' वस्त्राणि, 'चः' स्वगतानेकभेदसंसूचकः, 'वाहनं' रथाश्वादि, पठन्ति च 'सवाहणं ति सह वाहनैर्वर्तत इति सवाहनं हिरण्यादीति सम्बन्धः, 'कोपं' भाण्डागारं चर्मलताद्यनेकवस्तुरूपं 'बहावइत्ता पंति वृद्धिं प्रापय्य ततः समस्तवस्तुविषयेच्छापरिपूर्ती गच्छ क्षत्रिय !, अयमाशयः यः साकाङ्क्षो नासौ धर्मानुष्ठानयोग्यो भवति, यथा मम्मणवणिक, साकाङ्क्षश्च भवान्, आकाक्षणीय हिरण्यादिवस्त्यपरिपूर्तेः, तथाविधद्रमकवदिति । शेषं प्राग्वदिति सूत्रार्थः ॥ ततः 'एयं' ४७ सूत्रं प्राग्वत् । -
सुवण्ण रूप्पस्स य पब्वया भवे, सिया हु केलाससमा असंखया ।
नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणतया ॥ ४८ ॥
पुढवी साली जवा चैब, हिरण्णं पसुभिस्सह । पडिपुन्नं नालमेगस्स, इह विजा तवं चरे ॥ ४९ ॥ व्याख्या - सुवर्ण च रूप्यं च सुवर्णरूप्यमिति समाहारस्तस्य, 'तुः' पूरणे, यद्वाऽऽर्षत्वाद्विभक्तिलोपः, तुशब्दः समुधये, ततः स्वर्णस्य रूप्यस्य च पर्वता इव पर्वताः - पर्वतप्रमाणाः राशयो 'भवन्ति' भवेयुः, पर्वतप्रमाणत्वेऽपि च लघुपर्वतप्रमाणा एव स्युरत आह-' सिया हुति स्यात्- कदाचित्, हुरवधारणे भिन्नक्रमश्च, ततः 'कैलाससमा' एव कैलासपर्वततुल्या एव, न त्वन्यलघुपर्वतप्रमाणाः, तेऽपि 'असङ्ख्यकाः' सङ्ख्याविरहिताः, न तु द्वित्रा एव, नरस्य लुब्धस्य, उपलक्षणत्वात् स्त्रियाः पण्डकस्य था, न तैः कैलाशसमैरपि सुवर्णरूप्यपर्वतैः 'किञ्चिदपि' अल्पमपि परितोषोत्पादनं प्रति
Liselk
For Parsons Privat
नमिप्रत्र
ज्याध्य, ९
~ 133 ~
॥३१५॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः