SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९], मूलं [-] / गाथा ||३९-४०|| नियुक्ति: [२७९...] प्रत सूत्रांक ||३९ -४०|| विधस्स दातुर्यदि कथञ्चिचारित्रमोहनीयक्षयोपशमेन 'संयमः आश्रयादिविरमणात्मकः स्यात् तदा स एव 'श्रेयान्' अतिशयप्रशस्यः, कथंभूतस्यापि ?-'अददतोऽपि' अयच्छतोऽपि 'किञ्चन' खल्पमपि वस्तु, यद्वा 'तस्सावित्ति तस्मादप्युक्तरूपाहातुरबधित्वेन विवक्षितात् , संयच्छति-प्राणिहिंसादिभ्यः सम्यगुपरमतीति सर्वधातूनां पचादिषु । है दर्शनादिति संयमः-संयमवान् , साधुरित्यर्थः, 'श्रेयान्' प्रशस्थतरः, अथवा तस्यापि दातुः प्रक्रमात् गोदानधर्मात् 'संयमः' उक्तरूपः श्रेयान् , शेषं पूर्ववत् , गोदानं चेह यागायुपलक्षणम् , अतिप्रभूतजनाचरितमित्युपात्तम् , एवं च | संयमस्ख प्रशस्थतरत्वमभिदधता यागादीनां सावद्यत्वमदावेदितं, तथा च यज्ञप्रणेतृभिरुक्तम्-“पट् शतानि है नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिभिः ॥१॥" इयत्पशुवधे च कथमसावयता नाम ?, तथा दानान्यप्यशनादिविषयाणि धर्मोपकरणगोचराणि च धर्माय वर्ण्यन्ते, यत आह-"अशनादीनि । दानानि, धर्मोपकरणानि च । साधुभ्यः साधुयोग्यानि, देयानि विधिना बुधैः ॥१॥" शेषाणि तु सुवर्णगोभूदम्यादीनि प्राण्युपमर्दहेतुतया सायद्यान्येव, भोगानां तु सावद्यत्वं सुप्रसिद्धं । तथा च प्राणिप्रीतिकरत्वादित्यसिद्धो हेतुः, प्रयोगश्च-यत्सावधन तत प्राणिप्रीतिकरं, यथा हिंसादि. सावधानि च यागादीनि इति सूत्रार्थः ॥ 'एयम'। 11४१ सूत्रं प्राग्वत् । नवमित्थं जिनधर्मस्थैर्यमवधार्य प्रव्रज्यां प्रति दृढोऽयमुत नेति परीक्षणार्थ शक्र इदमवादी घोरासमं चहत्ता णं, अन्नं पत्थेसि आसमं । इहेव पोसहरओ, भवाहि मणुयाहिवा! ॥ ४२ ॥ दीप अनुक्रम [२६७-२६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~130
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy