________________
आगम (४३)
प्रत
सूत्रांक
||१२||
दीप
अनुक्रम [२४०]
Education
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१२|| निर्युक्ति: [२७९...]
अध्ययनं [९],
एस अग्णी अ वाओ अ, एयं डज्झति मंदिरं । भगवं ! अंतेउरंतेणं, कीस णं नावपिक्खह ॥ १२ ॥ व्याख्या -- 'एप' इति प्रत्यक्षोपलभ्यमानः 'अग्निश्च' वैश्वानरः 'वातश्च' पवनस्तथा 'एतदिति प्रत्यक्षं 'दह्यते' भस्मसात् क्रियते, प्रक्रमाद्वातेरितेनाग्भिनैव, 'मन्दिर' वेश्म, भवत्सम्बन्धीति शेषः, भगवन्निति पूर्ववद्, 'अन्तेउरंतेणं' ति अन्तः पुराभिमुखं 'कीस 'त्ति कस्मात् ? 'णम्' इति वाक्यालङ्कारे 'नावप्रेक्षसे' नावलोकसे । इह च यद्यदात्मनः स्वं तत्तद्रक्षणीयं यथा ज्ञानादि, स्वं चेदं भवतोऽन्तःपुरमित्यादिहेतुकारणभावना प्राग्वदिति सूत्रार्थः ॥ ततश्च ' एवं ' सूत्रं (१३) प्राग्वत् ॥ किमब्रवीत् ? इत्याह
सुहं वसामो जीवामो, जेसि मो नत्थि किंचणं । मिहिलाए डज्झमाणीए, न मे इज्झर किंचणं ॥ १४ ॥
व्याख्या- 'सुख' यथा भवत्येवं 'वसामः' तिष्ठामः 'जीवामः प्राणान् धारयामः, येषां 'मो' इत्यस्माकं 'नास्ति' न विद्यते 'किञ्चन' वस्तुजातं, यतः - 'एकोऽहं न च मे कश्चित् खपरो वाऽपि विद्यते । यदेको जायते जन्तुर्भियतेऽप्येक एव हि ॥ १ ॥” इति न किञ्चिदन्तःपुरादि मत्सत्कं यतश्चैवमतो 'मिथिलायाम् अस्यां पुरि दद्यमानायां न मे दाते 'किञ्चन' खल्पमपि, मिथिलाग्रहणं तु न केवलमन्तः पुराद्येव न मत्सम्बन्धि किन्त्वन्यदपि खजनजनादि । स्वस्वकर्मफलभुजो हि जन्तवः तथा तथाऽस्मिन् भ्राम्यन्तीति किमत्र कस्य स्वं परं चेति ख्यापनार्थं । ततश्चानेन
For Parsons Privat
janetary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 120~