SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [६], मूलं [-1 / गाथा ||३२...|| नियुक्ति: [२३६] प्रत सूत्रांक ||३२|| - ॥ उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने मरणविभक्तिरक्ता, तत्रापि |चानन्तरं पण्डितमरणं, तच 'विरयाण पंडियं बेति'ति वचनाद्विरतानामेव, न चैते विद्याचरणविकला इति तत्खरूपमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्याध्ययनस्य महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्तीत्यादिचर्चस्तावद्यावन्नामनिष्पन्ननिक्षेपे क्षुल्लकनिम्रन्थीयमिति नाम, ततः क्षुलकस्य निर्ग्रन्थस्य च निक्षेपः कार्यः, तत्र क्षुल्लकस्य विपक्षो महान् , तदपेक्षत्वात् क्षुल्लकस्य, इति तन्निक्षेपे निक्षिप्तमेव तद्भवतीत्यभिप्रायेणाहनामं ठवणा दविए खित्ते काले पहाण पइ भावो । एएसि महंताणं पडिवक्खो खुल्लया हुंति ॥ २३६ ॥ व्याख्या-अत्र नामस्थापने क्षुण्णे, महच्छन्दश्च प्रक्रमात् सर्वत्र गम्यते, तत्रागमतो ज्ञाताऽनुपयुक्तो द्रव्यमहत्, नोआगमतो ज्ञशरीरभव्यशरीरतद्वयतिरिक्तं द्रव्यमहद् अचित्तमहास्कन्धो दण्डादिकरणेन यश्चतुर्भिः समयैः सकललोकमापूरयति, क्षेत्रमहत् लोकालोकव्याप्याकाशं, कालमहद् अनागताद्धा, प्रधानमहत्रिधा-सचित्तमचित्तं मिश्र च, तत्र सचित्तं द्विपदं चतुष्पदमपदं च, तत्र द्विपदं तीर्थकृत् चतुष्पदं सरभः अपदं पनादिदोत्पन्नं पद्मम् , अचित्तं चिन्तामणिः, मिश्र तीर्थकदेव राज्याभिषेकादिष्वलकृतः, प्रतिमहत् यदन्यापेक्षया महदुच्यते, यथा सर्षपाचनकश्च+नकाद्वदरमित्यादि, भावमहत् प्राधान्यतः क्षायिको भावः कालतः पारिणामिकोऽनाद्यनन्तजीवाजीवत्वादिरूपत्वा - -- दीप अनुक्रम [१६०] - - - पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: अथ अध्ययनं -६ "क्षुल्लकनिर्ग्रन्थिय" आरभ्यते ~11
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy