________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [-] / गाथा ||१|| नियुक्ति: [२३४]
प्रत
सूत्रांक ||१||
व्याख्या-एकान्तेन-नियमेन प्रशस्तानि-लाप्यानि 'श्रीणि त्रिसङ्खयानि 'अ' एतेष्वनन्तराभिहितेषु मरणेषु मरणानि 'जिन' केवलिभिः 'प्रज्ञप्तानि' प्ररूपितानि, तान्येवाह-भक्तपरिज्ञा इङ्गिनी 'पायवगमणं' चेति पादपोपगमनं च, इदमपि त्रयं किमेकरूपमित्याह-क्रमेण-परिपाट्या ज्येष्ठम्-अतिशयप्रशस्य क्रमज्येष्ठं यथोत्तरं प्रधानमितिभावः । शेषमरणान्यपि यानि प्रशस्तानि तेषामत्रैवान्तर्भावः, इतराणि कानिचित् कथञ्चित् प्रशस्तानि, अपराणि | तु सर्वथैवाप्रशस्तानीति गाथार्थः ॥ २३४ ॥ इह च येनाधिकारस्तदाहइत्थं पुण अहिगारोणायबो होइ मणुअमरणेणं । मुत्तुं अकाममरणं सकाममरणेण मरिया ॥ २३५॥
व्याख्या-'अत्र' एतेषु मरणेषु, पुन शब्दो वाक्योपन्यासार्थः, अधिकारो ज्ञातव्यो भवति मनुजमरणेन, किमुक्तं भवति ?-मनुष्यभवसम्भविना पण्डितमरणादिना, तान्येव प्रत्युपदेशप्रवृत्तेः । सम्प्रत्युक्तार्थसंक्षेपद्वारेणोपदेशसर्व|खमाह-मुक्त्वाऽकाममरणं-बालमरणाद्यमप्रशस्तं 'सकाममरणेन' भक्तपरिज्ञादिना प्रशस्तेन मर्तव्यमिति गाथार्थः। F॥२३५ ॥ गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तवेदम्
अण्णवंसि महोहंसि, एगे तरइ दुरुत्तरं । तत्थ एगे महापण्णे, इमं पण्हमुदाहरे॥१॥ व्याख्या-अो-जलं विद्यते यत्रासावर्णवः, अर्णसो लोपश्चेति (पा०५-२-१०९ वार्तिकं ) वप्रत्ययः सकारलोपश्च, स च द्रव्यतो जलधिर्भावतश्च संसारः तस्मिन् , कीशि ?-'महोघंसि'त्ति महानोधः-प्रवाहो द्रव्यतो जल
दीप
अनुक्रम [१२९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~488