SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [9], मूलं [-1 / गाथा ||१३...|| नियुक्ति: [२३२] * * * प्रत सूत्रांक ||१३|| सेसाणं मरणाणं नेओ संतरनिरंतरो उ गमो। साई सपजवसिया सेंसा पढमिल्लुगमणाइ ॥ २३२ ॥ | व्याख्या-शेषाणां मरणानाम्-अवधिमरणादीनां पञ्चदशानां ज्ञेयः, सहान्तरेण-व्यवधानेन वर्तत इति सान्तरः, निष्क्रान्तोऽन्तरान्निरन्तरश्च, तुःशब्दस्य समुच्चयार्थत्वात् , उक्तं हि-"तुशब्दो विशेषणपादपूरणावधारणसमुच्चयेषु" कोऽसौ ?-गम्यते अनेन वस्तुखरूपमिति गमः-प्ररूपणा, इद मुक्तं भवति-यदाऽन्यतरद्वालमरणादिकं प्राप्य म्रियते मृत्वा च भवान्तरे मरणान्तरमनुभूय पुनस्तदेवाप्नोति तदा सान्तरमिति प्ररूपणा, यदा तु बालमर-15 णादिकमवाप्य पुनस्तदेवाव्यवहितमाग्नोति तदा निरन्तरं भवति, तत्प्ररूपकत्वाचेह गमोऽपि सान्तरो निरन्तरश्चेत्युक्तः । सम्प्रति गाथापश्चार्धन कालद्वारमाह-सादीनि च सपर्यवसितानि च सादिसपर्यवसितानि 'शेपाणि षोडश वक्ष्यमाणापेक्षया अवधिमरणादीनि, एकसामयिकतायास्तेषामभिहितत्वात् , प्रवाहापेक्षया तु शेषभङ्गोपलसाक्षणमेतत् , प्रवाहतोऽपि भङ्गत्रयपतितानि शेषमरणानि सम्भवन्ति, तथा च वृद्धाः-"बालमरणाणि अणाइयाणि Vावा अपजयसियाणि या, अणादियाणि वा सपजवसियाणि. पंडियमरणाणि पुण साइयाणि सपजवसियाणि" मुक्त्यवाप्तौ तदुच्छित्तिसम्भवादिति भावः, 'पढमिल्लुगं'ति प्रथमकम्-आवीचिमरणम् 'अनादि' आदिरहितं प्रया-11 १ बालमरणानि अनादिकानि वा अपर्यवसितानि वा, अनादिकानि वा सपर्यवसितानि, पण्डितभरणानि पुन: सादिकानि सपर्यवसितानि दीप अनुक्रम [१२८] FARPATISEMANDwony पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~486
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy