________________
आगम
(४३)
प्रत
सूत्रांक
||23||
दीप
अनुक्रम [१२८]
Jim Euston t
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [५], मूलं [--] / गाथा || १३...||
निर्युक्तिः [२२७-२२९]
वशवर्तिनो जन्तव इति भवः तत्र तिष्ठन्ति भवस्थाः ते च ते जीवाश्चेति विशेषणसमासः, त्रियन्ते, आवीचिकमवीचिकं वा मरणमाश्रित्येति शेषः, यद्वा विभक्तिव्यत्ययादावीचिकेन मरणेन म्रियन्ते 'सदा' सर्वकालं, 'ओहिं च'त्ति अवधिमरणं, चशब्दो भिन्नक्रमः, ततश्च 'आश्यंतिय' न्ति आत्यन्तिकमरणं च द्वे अप्येते 'भजनया' विकल्पनया, किमुक्तं भवति ? - यद्यप्यावीचिमरणवत् अवध्यात्यन्तिकमरणे अपि चतसृष्वपि गतिषु सम्भवतः तथाऽप्यायुःक्षयसमय एव तयोः सम्भवान्न सदाभावः, अत आवीचिकमरणमेव सदेत्युक्तम्, अनेनावीचिमरणस्य सदाभावेन लोके मरणत्वेनाप्रसिद्धिः अविवक्षायां हेतुरुक्त इति भावनीयं । सम्प्रति 'दोन्निवि' इत्यादि व्यक्तीकरोति- 'ओहिं च आइयंतिय'ति, चशब्दो भिन्नक्रमः, ततोऽवधिमरणमात्यन्तिकमरणं च, 'वाल' बालमरणं च तथेत्युत्तरभेदापेक्षया समुचये, 'पण्डितं च' पण्डितमरणं, 'मिश्रं च' बालपण्डितमरणं च चशब्दाद्वैहायसगृपृष्ठमरणे, भक्तपरिज्ञेज्ञिनीपादपोपगमनानि च, 'अन्योऽन्येन' परस्परेण विरुध्यन्ते, युगपदसम्भयात्, तत्र चाविरतस्यावध्यात्यन्तिकमरणयोः अन्यतरद्वालमरणं चेति द्वे, तद्भयमरणेन सह त्रीणि, बशार्तेन चत्वारि, कथञ्चिदात्मघाते च वैहायसगृध्रपृष्ठयोरन्यतरेण पञ्च, आहवलन्मरणान्तः शल्यमरणे अपि बालमरणभेदावेव, यत आगमः - "बालमरणे दुवालसविहे पन्नचे, तंजहा - बलावमरणे १ बालमरणं द्वादशविधं प्रज्ञमं तद्यथा-वलन्मरणं
For Parts Ord
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 482~