________________
आगम (४३)
प्रत
सूत्रांक
||23||
दीप
अनुक्रम
[१२८]
Jam Euston T
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्ति:+वृत्तिः) अध्ययनं [५], मूलं [--] / गाथा ||१३...|| निर्युक्ति: [२१६]
व्याख्या- 'एवमेव ' यथाऽऽवीचिमरणं द्रव्यक्षेत्र कालभवभावभेदतः पञ्चविधं तथाऽवधिमरणमपीत्यर्थः । तत्खरूपमाह यानि मृतः, सम्प्रतीति शेषः, तानि चैव 'मरइ पुणो 'त्ति आर्षत्वात्तिव्यत्ययेन मरिष्यति पुनः किमुक्तं भवति ? - अवधिः- मर्यादा, ततश्च यानि नारकादिभवनिबन्धन तयाऽऽयुः कर्म दलिकान्यनुभूय म्रियते, यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद् द्रव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणम्, परिणामवैचित्र्याद् एवं क्षेत्रादिष्वपि भावनीयं । पश्चार्द्धनाऽऽत्यन्तिक मरणमाह
एमेव आइयंतियमरणं नवि मरइ ताइ पुणो ॥ २१६ ॥
व्याख्या -' एवमेव' अवधिमरणवदात्यन्तिकमरणमपि द्रव्यादिभेदतः पञ्चविधं, विशेषस्त्वयम् -'णवि मरइ ताइ पुणो 'ति अपिशब्द स्यैवकारार्थत्वान्नैव तानि द्रव्यादीनि पुन म्रियते, इदमुक्तं भवति --यानि नरकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति, एवं क्षेत्रादिष्वपि वाध्यं, त्रीण्यपि चामून्यवीच्यविध्यात्यन्तिकमरणानि प्रत्येकं पञ्चानां द्रव्यादीनां नारकादिगतिभेदेन चतुर्विधत्वाद्विंशतिभेदानीति गाथार्थः ॥ २१६ ॥ | साम्प्रतं चलम्मरणमाह-
संजमजोगविसन्ना मरंति जे तं वलायमरणं तु । इंदियविसयवसगया मरंति जे तं वसहं तु ॥ २१७॥
For Paren
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 470 ~