________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||९|| नियुक्ति: [२०७...]
प्रत
सूत्रांक
||९||
उच्यते, अप्रमाद एवादरः कार्य इति ख्यापनार्थत्वादध्ययनार्थोजीवनार्थत्वाचास्य न पौनरुक्त्यमिति भावनीयं, ४ पूर्वाणि वर्षाणीति च एतावदायुषामेव चारित्रपरिणतिरिति दर्शनार्थमुक्तमिति सूत्रार्थः॥८॥ ननु यदि छन्दोनिरोट्राधेन मुक्तिः, अयमन्त्यकाल एव तर्हि विधीयतामित्याशङ्कवाह, यद्वा यदि पश्चान्मलापध्वंसी स्यात् तदैव छन्दोनिरोधादिकमपि तद्धेतुभूतमस्त्वत आह
स पुत्वमेवं ण लभेज पच्छा, एसोवमा सासयवाइयाणं ।
विसीदति सिढिले आउयंमि, कालोवणीए सरीरस्स भेए ॥९॥ (सूत्रम्) व्याख्या-'स' इति यत्तदोर्नित्याभिसम्बन्धात् यः प्रथममेवाप्रमत्ततया भावितमतिर्न भवति स तदात्मक 18 छन्दोनिरोधं 'पुत्वमेवं ति एवंशब्दस्यात्रोपमार्थत्वात्पूर्वमिवान्त्यकालात् मलापध्वंससमयाद्वा अभावितमतित्वात् 'न
लभेत्न प्राप्नुयात्, सम्भावने लिट, ततश्च लाभसम्भावनाऽपि न समस्ति, किं पुनस्तल्लाभ इति, 'पश्चात् ' अन्त्य-1EX काले मलापध्वंससमये वा, 'एसोवम'त्ति एषा-अनन्तरमभिहितखरूपा उप-सामीप्येन मीयते-परिच्छिद्यते स्वयंप्रसिद्ध्या अपरमप्रसिद्धं वस्त्वनयेत्युपमा, केषां ?-शाश्वता इव वदितुं शीलमेषामिति शाश्वतवादिनः, उष्ट्रक्रोशिवत् कर्तर्युपमाने (पा-३-२-१९) इति णिनिः, तेषां शाश्वतवादिनाम्-आत्मनि मृत्युमनियतकालभाषिनमपश्यताम् ,
दीप अनुक्रम [१२४]
www.janorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~455