________________
आगम
(४३)
प्रत
सूत्रांक
|||||
दीप
अनुक्रम [११६]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः)
अध्ययनं [४],
मूलं [--] / गाथा ||१||
निर्युक्ति: [१९२]
द्यमानमेव चोत्पन्नं यत उक्तम्- "जम्हा विगच्छमाणं विगय" मित्यादि, तथा चास्य य एवोत्तरभवोत्पादः स एव पूर्वभवपरित्यागः, एवं च यदेवोत्तरभवदारिकपुद्गलानां सङ्घातस्तदैव पूर्वभवौदारिकपुद्गलानां शाट इति परभवप्रथमसमय एवैतदभिप्रायेण शाटः, व्यवहारनयमतेन त्वन्य एवोत्तरस्योत्पादः अन्य एव च पूर्वस्य विनाशो, विनष्टस्यैव च विनष्टता उत्पन्नस्यैव चोत्पन्नता, ततो न य एवोत्तरभवोत्पादः स एव पूर्वभवपरित्यागः, एवं चान्यदेवोत्तरभवौदारिकपुद्गलानां सङ्घातोऽन्यदैव च पूर्वभवदारिकपुद्गलानां शाटः, ततो नास्य परभवप्रथमसमय एव सङ्घातशाटी, किन्तु पूर्वभवान्त्यसमय एव शाटः उत्तरभवाद्यसमय एव सङ्घातः, तथा च निश्चयव्यवहारनयात्मकत्वाजिनमतस्य यदाऽसौ क्षुलकभव उत्पद्यते तदा व्यवहारनयस्याश्रयणात्पूर्वभवान्त्यसमय एव शाटो विवक्ष्यते, यदा तु तत | उद्वर्त्तते तदा निश्चयनयाङ्गीकरणात्परभवप्रथमसमय एवोत्पाद इति परिपूर्णमेव लकभवग्रहणमौदारिकसर्वशाटयोर्जघन्यमन्तरमिति न कश्चिद्विरोधः । ईदाणिं विउचियस्स - वेउचिय संघातो समतो सो पुण विउवणादीतो । ओरालियाण अहवा देवादीणाइगहणंमि ॥ १ ॥ उकोसो समयदुगं जो समय विउबिउं मतो वितिए । समए सुरेसु
१ इदानीं वैक्रियस्य वैक्रियसंघातः समयः स पुनर्विकुर्वणादेः । औदारिकाणामथवा देवादीनामादिग्रहणे ॥ १ ॥ उत्कृष्टः समयद्विकं यः समयं विकुर्व्य मृतो द्वितीये । समये सुरेषु
Education intentional
Forest Use Only
www.incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~407~