________________
आगम (४३)
प्रत
सूत्रांक
|||||
दीप
अनुक्रम
[११६]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१||
अध्ययनं [४],
निर्युक्तिः [१८३]
ल्युटो दर्शनात्, भावसाधनपक्षे तु द्रव्येण द्रव्यस्य द्रव्ये वा यथासम्भवं क्रियात्मकं करणं, तथा चाह -" "तं तेणं तस्स तंमि व संभवतो उ किरिया मया करणं । दवस्स व दद्वेण व दबंमि व दकरणंति ॥ १ ॥ " तचागमनोआगमभेदतो द्विधा, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात्त्रिधा, तत्र ज्ञशरीर भव्य शरीरद्रव्यकरणे प्रतीते एवेत्यनादृत्य तद्व्यतिरिक्तमाह
|दवकरणं तु दुविहं सन्नाकरणं च नोय सन्नाए । कडकरणमटुकरणं वेलूकरणं च सन्नाए ॥ १८४ ॥
व्याख्या- द्रव्यकरणं, तुशब्दो नोआगमत इदमिति विशेषद्योतकः, 'द्विविधं द्विप्रकारं संज्ञाकरणं च 'णो य सण्णाए'ति करणमिति प्रक्रमात् चशब्दो भिन्नक्रमः, ततश्च नोसंज्ञाकरणं च । तत्र संज्ञाकरणमाह' कटकरणं कटनिर्वर्त्तकं चित्राकारमयोमयं पाइलगादि, 'अर्थकरणम्' अर्थाभिनिर्वर्त्तक मधिकरण्यादि येन द्रम्मादि निष्पाद्यते, अर्थार्थ वा करणमर्थकरणं यत्र राज्ञोऽर्थाश्विन्त्यन्ते, अर्थ एव वा तैस्तैरुपायैः क्रियत इत्यर्थकरणं, बेलुकरणं च रुतपूणिकानिर्वर्त्तकं चित्राकारमयं वेणुशलाकादि, 'संज्ञायां' संज्ञाकरणे, आह— नामकरणसंज्ञाकरणयोः कः प्रतिविशेषो ?, न हि नामसंज्ञाशब्दयोरर्थान्तरविषयत्वमुत्पश्यामः, उच्यते, इह नामकरणं करणमित्यभिधानमात्रं, संज्ञाकरणं तु यत्रान्वर्थोऽस्ति, संज्ञाकरणेषु हि कटकरणादिषु क्रियतेऽनेनेति करणमि१ तचेन तस्य तस्मिन्वा संभवतस्तु क्रिया मता करणम् । द्रव्यस्य वा द्रव्येण वा द्रव्ये वा द्रव्यकरणमिति ॥ १ ॥
uttaration
For at Use Only
www
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३ ], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~397~