SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [-] दीप अनुक्रम [-] उत्तराध्य. बृहद्वृत्तिः ॥ १४ ॥ Education intam [भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) निर्युक्ति: [२८] अध्ययनं [१], मूलं [-], ऽवयारो से"। गुणप्रमाणं तु द्विधा - जीवगुणप्रमाणमजीवगुणप्रमाणं च तत्रास्य जीवोपयोगरूपत्वाज्जीवगुणप्रमाणेऽवतारः, तस्मिन्नपि ज्ञानदर्शनचारित्रभेदतख्यात्मकेऽस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानाऽऽगमात्मके प्रकृताध्ययनत्याप्तोपदेशरूपतयाऽऽगमप्रमाणे, तत्रापि लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रार्थोभयात्मनि, तथा चाह - " जीवाणण्णत्तणओ जीवगुणेणेह भावओ नाणे । लोउत्तरसुत्तत्योभयागमे तस्स भाषाओ ॥ १ ॥” तत्राप्यात्मानन्तरपरम्परागमभेदतस्त्रिविधे अर्थतस्तीर्थकरगणधरतदन्तेवासिनः सूत्रतस्तु स्थविरत च्छिव्यतत्प्रशिष्यानपेक्ष्य यथाक्रममस्यात्मानन्तरपरम्परागमेष्ववतारः, सङ्ख्याप्रमाणमनुयोगद्वारादिषु प्रपञ्चितमिति तत एवावधारणीयं तत्र चास्य परिमाणसङ्ख्यायामवतारः, तत्रापि कालिकश्रुतदृष्टिवादश्रुतपरिमाणभेदतो द्विभेदायां | कालिकश्रुतपरिमाणसङ्ख्यायां दिवा रात्रौ च प्रथमपश्चिमपौरुष्योरेवैतत्पाठ नियमात् तत्रापि शब्दापेक्षया सङ्ख्याक्षरपादश्लोकाद्यात्मकतया सङ्ख्यातपरिमाणात्मिकाय पर्यायापेक्षया त्वनन्तपरिमाणात्मिकायाम्, अनन्तगमपर्यायत्वादागमस्य, तथा चाह - "अनंता गमा अनंता पज्जवा" इत्यादि । वक्तव्यता- पदार्थविचारः, सा च खपरोभयसमयभेदतस्त्रिधा, तत्र खसमयः - अर्हन्मतानुसारिशास्त्रात्मकः, परसमयः - कपिलाद्यभिप्रायानुवर्तिग्रन्थस्वरूपः, उभय समय स्तूभयमतानुगतशास्त्रस्वभावः, तत्रास्य स्वसमयवक्तव्यतायामेवावतारः, खसमयपदार्थानामेवात्र वर्णनात्, १ जीवानन्यत्वाज्जीवगुणेनेह भावतो ज्ञाने । लोकोत्तरसूत्रार्थोभयात्मके तस्य भावात् । १ । २ अनन्ता गमा अनन्ताः पर्यवाः For Patenty अध्ययनम् १ ~39~ ॥ १४ ॥ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy