________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६८]
प्रत
2
सूत्रांक ||४६||
%
मन्त्यत्वात् , तरैयत्वं च निरूपणायां पर्यन्तभवनात् , तन्नियमोऽपि विवक्षानियमादिति, एवं सति चक्रवत् पुनः पुनरावर्त्तते इति, यदि च पूरणत्वमन्त्यस्य विशेषः तदा तच्छेषप्रदेशापेक्षमेवेत्यन्त्याविनाभावित्वे तदपिनाभाबित्वमपि । बलादापततीति सकलप्रदेशाविनाभावित्वात्तद्वात्मकत्वसिद्धिः, नाप्युपकारित्वं विशेषः, यतस्तदन्येषामपि कथं न ?, किमात्मप्रदेशा एव न ते , यद्वाऽऽत्मप्रदेशत्वेऽप्येकका इति, न तावदाद्यः पक्षः, अशेषाणामात्मप्रदेशत्वेन वादिनतिवादिनोरिष्टत्वात् , अथात्मप्रदेशत्वेऽप्येकका इति, एकत्वं त्वन्मतान्त्यप्रदेशसहायकाभावात् परस्परसाहायकविरहतो वा', यदि त्वन्मतान्त्यप्रदेशसहायकाभावात् शेषप्रदेशानामनुपकारित्वं, त्वन्मतस्यान्त्यस्यापि तत्साहायका
सत्त्वात् तदस्तु, युक्तं च बहूनामुपकारित्वम् , एकस्य तु तदभावो, यदुक्तम्-"जुत्तो य तदुवयारो देसूणे ण उ पएस-1 कामेत्तमि । जह तंतूणमि पडे पडोवयारो न तंतुंमि ॥१॥" नापि परस्परसहायकासच्चात् , यतस्त किं त्वत्कल्पितान्त्य
प्रदेशतो न्यूनत्वे तदभावे वा ?, यदि न्यूनत्वे तत्किं शक्तितोऽवगाहनातो वा न तावच्छक्तितः, एकपटतन्तूनामिवैदाकात्मप्रदेशानां तब्यूनत्यायोगात्, नाप्यवगाहनातः, सर्वेषामप्यमीषामेकैकाकाशप्रदेशावगाहित्वेन तुल्यत्वात् , तद
भावपक्षे चान्त्यप्रदेशस्येव शेषप्रदेशानामप्यात्मोपकारित्वं सिद्धमेव, आगमाभिहितत्वं च विशेषकमुच्यमानं तदन्यतामेव सूचयति, यतः स्फुटमेवागमवचनं "कसिणे पडिपुण्णे लोगागासपएसतुल्लपएसे जीवत्ति बत्तयं सिय" त्ति, ततश्च१ युक्तश्च तदुपधारो देशोने न तु प्रदेशमात्रे । यथा तन्तूने पटे पटोपचारो न तन्तौ ॥१॥
%-8
दीप अनुक्रम [९५]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~326