SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३५] “उत्तराध्ययनानि"-मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४०-४१|| नियुक्ति: [११८] प्रत सूत्रांक ॥४०-४१|| न तु विषादः, 'एवम्' अमुना प्रकारेण 'आश्वासय' खस्थीकुरु, कम् ?-आत्मानं, मा वैक्लण्यं कृथा इत्यर्थः, उक्तमेवर हेतुं निगमयन्नाह-ज्ञात्वा कर्मविपाकं, कर्मणां कुत्सितविपाकम् । इत्थं प्रज्ञाऽपकर्षमाश्रित्य सूत्रद्वयं व्याख्यातम् , एतदेव तदुत्कर्षपक्ष एवं व्याख्यायते-प्रशोत्कर्षवतैवं परिभावनीयं-से' इत्युपन्यासे नूनं मया पूर्व 'कर्माणि' अनुष्ठानानि ज्ञानप्रशंसादीनि, ज्ञानमिह विमर्शपूर्वको बोधः, तत्फलानि कृतानि येनाहं ना अपिशब्दस्य लुप्तनिर्दिष्टत्यान्नाऽपि-पुरु-र सापोऽप्यभिजानामि 'पृष्टः' पर्यनुयुक्तः 'केनापि' अविवक्षितविशेपेण, सर्वेणापीत्यर्थः, 'कस्मिंश्चिद्'यत्र तत्रापि वस्तुनि, अथे'त्युत्कर्षानन्तरम् 'अपत्य'त्ति अपथ्यानि आयतिकटुकानि कर्माण्यज्ञानफलानि 'उदिति'त्ति सूत्रत्वात्तिसाव्यत्ययेनोदेष्यन्ति, वर्तमानसामीप्ये वर्तमानबद्वा(पा.३-३-१३१)इत्यनेन वर्तमानसामीप्ये या लटि उदी-11 Xयन्ते, सनिहितकाल एवोदेष्यन्तीत्यर्थः, अयं चाशयः-उत्सेको हि ज्ञानावरणकारणमवश्यवेयं च तत, तददये च कुतो ज्ञानम् ?, अनियते बाऽस्मिन्क उत्सेकः?, इत्येषमालोचयन्नाश्वासय-प्रज्ञावलेपावलुप्सचेतनमात्मानं स्वस्थीकुरु ज्ञात्वा कर्मविपाकम् , इह च तत्रन्यायन युगपदर्थद्वयसम्भवः, तत्रं च दैयप्रसारिताः तन्तवः, ततो यथा तदेकमनेकस्य तिरश्चीनस्थ तन्तोः सङ्घाहि तथा यदेकेनानेकार्थस्याभिधानं स तनन्याय इति सूत्रद्वयार्थः ॥४०-४१॥ अत्र सूत्रद्वारं, सूत्रं चागमः, अस्मिंश्च प्रस्तुतसूत्रसचितमुदाहरणमाहउजेणी कालखमणा सागरखमणा सुवण्णभूमीए । इंदो आउयसेसं पुच्छइ सादिवकरणं च ॥१२॥ दीप अनुक्रम [८९-९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: अत्र नियुक्ति-क्रमे एक क्रमांकस्य मुद्रणदोषात् क्रमांकस्य परिवर्तनं दृश्यते ~263
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy