________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-1, ____मूलं [-], नियुक्ति: [६]
-%
*
प्रारबद्धबध्यमानकर्माभावेनाऽऽत्मनः खस्खभावानयनाद्धेतोः अध्ययनम् इच्छन्ति' अभ्युपगच्छन्ति, पूर्वसूरय इति
गम्यते, यद्वाऽध्यात्ममिति रूढितो मनः, तच प्रस्तावात् शुभं, तस्याऽऽनयनमध्ययनम् , आनीयते बनेन शुभं चेतः, ४ अस्मिन् उपयुक्तस्य वैराग्यभावात् , शेषं प्राग्वत् , नवरं वैराग्यभावात् कर्मणामिति क्लिष्टानामिति गाथार्थः ॥६॥ व निरुक्त्यन्तरेणैतदेव व्याख्यातुमाहअहिगम्मति व अत्था अणेण अहियं व णयणमिच्छति ।अहियं वसाहु गच्छइ तम्हाअज्झयणमिच्छंति ७
व्याख्या-'अधिगम्यन्ते वा' परिच्छिद्यन्ते वा 'अर्था' जीवादयः अनेनाधिकं वा नयनं-प्रापणमर्थादात्मनि ज्ञानादीनामनेन इच्छन्ति, विद्वांस इति शेषः, 'अधिकम्' अर्गलं शीघ्रतरमितियावत्, 'वा' सर्वत्र विकल्पार्थः, साधु'त्ति साधयति पौरुषेयीभिर्विशिष्टक्रियाभिरपवर्गमिति साधुः 'गच्छति' यात्यर्थान्मुक्तिम् , अनेनेत्यत्रापि योज्यते, यस्मादेवमेवं च ततः किमित्याह-तस्मादध्ययनमिच्छन्ति, निरुक्तविधिनाऽर्थनिर्देशपरत्वाद्वाऽस्य, अयतेरेतेऽधिपूर्वस्याध्ययनम् , इच्छन्तीति चाभिधानं सर्वत्र सूत्रार्थावाधया व्याख्याविकल्पानां पूर्वाचार्यसम्मतत्वेनादुष्टत्वख्यापनार्थमिति गाथार्थः ॥७॥ नामाक्षीणादित्रयं प्रतीतमेवेति रष्टान्तद्वारेण भावाक्षीणमाहजह दीवा दीवसयं पईप्पए सो य दीप्पए दीवो। दीवसमा आयरिया अप्पं च परं च दीवंति ॥८॥
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~24