SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥४८॥ दीप अनुक्रम [४८] उत्तराध्य. बृहद्वृत्तिः ॥ ७४ ॥ [भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) अध्ययनं [२], मूलं [ - ] / गाथा ||४८... || निर्युक्तिः [७१] कुधा कारणमिच्छन् यदैकेन पुरुषादिना चपेटादिना परीषह उदीर्यते तदा परीषहवेदनीयकर्मोदय निमित्तत्वेऽपि तस्य तदविवक्षया जीवेनासौ परीषह उदीरित इति वक्ति १, यदा बहुभिस्तदा जीवैः २, यदा अचेतनेनैकेन दृषदादिना | जीवप्रयोगरहितेन तदाऽजीवेन ३, यदा तैरेव बहुभिस्तदा अजीवैः ४ यदेकेन लुब्धकादिना वाणादिनैकेन तदा जीवेनाजीवेन च ५, यदा तेनैकेनैव बहुभिः वाणादिभिस्तदा जीवेनाजीवैश्च ६, यदा बहुभिः पुरुषादिभिरेकं शिलादिकमुत्क्षिप्य क्षिपद्भिस्तदा जीवैरजीवेन च ७, यदा तु तैरेव मुद्गरादीन् बहून् मुञ्चद्भिस्तदा जीवैश्वाजीवैश्वेति ८ 'सङ्ग्रहे' सङ्ग्रहनानि नये विचार्यमाणे जीवो 'वा' अथवा नोजीवो हेतुरिति प्रक्रमः किमुक्तं भवति ? - जीवद्रव्येणाजीवद्रव्येण वा परीषह उदीर्यते, स हि “संगहियपिंडियत्थं संगहवयणं समासतो बेंती" ति वचनात् सामान्यग्राहित्वेनैकत्वमेवेच्छति न पुनर्द्वित्ववहुत्वे, अस्यापि च शतभेदत्वाद्यदा चिद्रूपतया सर्वे गृह्णाति तदा जीवद्रव्येण यदा त्वचिद्रूपतया तदा अजीवद्रव्येण, 'व्यवहारे' व्यवहारनये 'नोजीव' इति अजीबो हेतुः कोऽर्थः १ - अजीवद्रव्येण परीषह उदीर्यत इत्येकमेव भङ्गमयमिच्छति, तथाहि--"वचंद विणिच्छियत्थं ववहारो सङ्घदवेसुं" इति तल्लक्षणं, तत्र च 'विनिश्चित' मित्यनेकरूपत्वेऽपि वस्तुनः सांव्यवहारिकजनप्रतीतमेव रूपमुच्यते, तद्ब्राहकोऽयम् उक्तं च१ संगृहीतपिण्डितार्थं संग्रहुवचनं समासतो ब्रुगते ( आ० नि० ) २ प्रजति विनिश्चितार्थ व्यवहारः सर्वद्रव्येषु । For Full परीषद्दा ध्ययनम् २ ~ 158~ ॥ ७४ ॥ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy