________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [१], मूलं [-]/ गाथा ||३४|| नियुक्ति: [६४...]
बृहद्वृत्तिः
प्रत सूत्रांक ||३४||
उत्तराध्य. लब्धिमानिति मदाध्मातमानसः, नीचोऽसन्तावनतकन्धरो निम्नस्थानस्थितो वा द्रव्यतः भावतस्तु न मयाऽद्य कि- अध्ययनम्
INIञ्चित् कुतोऽप्यवासमिति देन्यवान् , उभयत्र वा समुच्चये, तथा 'नासन्ने' समीपवर्तिनि 'नातिदूरे' अतिविप्रकर्षवति
प्रदेशे, स्थित इति गम्यते, यथायोग जुगुप्साशकैषणाशुद्धयसम्भवादयो दोषाः, अथवा अत एव नासन्नो नातिदू-15 ॥६ ॥
रगः, प्रगता असव इति सूत्रत्वेन मतुवूलोपादसुमन्तः-सहजसंसक्तिजन्मानो यस्मात् तत् प्रामुकं, परेण-गृहिणा-12 हऽऽत्मार्थ परार्थ वा कृतं-निवर्तितं परकृतं, किं तत् ?-पिण्डम् आहारं 'प्रतिगृह्णीयात् ' स्वीकुर्यात्, 'संयतः' यतिरिति सूत्रार्थः ॥ ३४ ॥ इत्थं सूत्रद्वयन गवेषणाग्रहणैषणाविषयं विधिमुक्त्वा ग्रासैपणाविधिमाह
अप्पपाणेऽप्पबीए वा,पडिच्छन्ने य संवुडे । समयं संजओ भुंजे,जयं अप्परिसाडिय॥३५॥(सूत्रम्) व्याख्या-अल्पशब्दोऽभावाभिधायी, तथेहापि सूत्रत्वेन मत्वर्थीयलोपात् प्राणा:-प्राणिनस्ततश्चाल्पा-अविद्यमानाः प्राणा:-प्राणिनो यस्मिंस्तदल्पप्राणं तस्मिन्-अवस्थितागन्तुकजन्तुविरहिते, उपाश्रयादाविति गम्यते, तथा अल्पानि-अविद्यमानानि वीजानि-शाल्यादीनि यस्मिंस्तदल्पबीजं तस्मिन् , उपलक्षणत्वाचास्य सकलैकेन्द्रियविरहिते, ननु चाल्पप्राण इत्युक्ते अल्पवीज इति गतार्थ, बीजानामपि प्राणत्वाद् , उच्यते, मुखनासिकाभ्यां यो निर्गच्छति | वायुः स एवेह लोके रूढितः प्राणो गृह्यते, अयं च द्वीन्द्रियादीनामेय संभवति, न बीजायेकेन्द्रियाणामिति कथं | गतार्थता ?, तत्रापि 'प्रतिच्छन्ने' उपरिप्रावरणान्विते, अन्यथा सम्पातिमसत्वसम्पातसम्भवात् , 'संवृते' पार्श्वतः |
दीप अनुक्रम [३४]
S
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~131