SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||33|| दीप अनुक्रम [33] [भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||३३|| निर्युक्ति: [६४...] अध्ययनं [१], नानवगमप्रसङ्गाद् एषणाशुद्धपसम्भवाथ, तथा 'अणासपणे 'त्ति प्रसज्यप्रतिषेधार्थत्वात् नञोऽनासन्ने प्रस्तावान्नातिनिकटवर्त्तिनि भूभागे तिष्ठेत्, तत्र पुराप्रविष्टापरभिक्षुकाप्रीतिप्रसक्तेः 'नान्येषां' भिक्षुकापेक्षया परेषां गृहस्थानां 'चक्षुः स्पर्शत' इति सप्तम्यर्थे तसिः, ततः चक्षुःस्पर्शे-दृग्गोचरे चक्षुःस्पर्शगो वा दृग्गोचरगतः 'तिष्ठेत्' आसीत | किन्तु विविक्तप्रदेशस्थो यथा न गृहिणो विदन्ति यदुत-एप भिक्षुको निष्क्रमणं प्रतीक्षत इति, तथा एगो' ति किममी मम पुरतः प्रविष्टा इति तदुपरि द्वेषरहितः 'भक्तार्थं' भोजननिमित्तं न च 'लंघित्त'त्ति उल्लङ्घ्य, 'तम्' इति भिक्षुकम्, 'अतिक्रामेत्' प्रविशेत्, तत्रापि तदप्रीत्यपवादादिसम्भवाद् । इह च मितं कालेन भक्षयेदिति भोजनमभिधाय यत्पुनर्भिक्षाटनाभिधानं तत् ग्लानादिनिमित्तं स्वयं वा बुभुक्षावेदनीयमसहिष्णोः पुनर्भ्रमणमपि न दोषायेति ज्ञापनार्थम् उक्तं च-- "जैइ तेण न संथरे । तओ कारणमुप्पण्णे, भत्तपाणं गवेस ॥१॥" इत्यादि, सूत्रार्थः ॥ ३३ ॥ पुनस्तद्गतविधिमेवाभिधित्सुराह नाइउच्चे नाइनीए, नासन्ने नाइदूरओ । फासूयं परकडं पिंडं, पडिगाहिज्ज संजए ॥३४॥ (सूत्रम् ) व्याख्या- 'नात्युचे' प्रासादोपरिभूमिकादौ नीचे या भूमिगृहादौ तत्र तदुत्क्षेपनिक्षेप निरीक्षणासम्भवाद् दायकापायसम्भवाच्च यद्वा 'नात्युच्च ः ' उच्चस्थानस्थितत्वेन ऊर्द्धकृतकन्धरतया वा द्रव्यतो भावतस्त्वहो ! अहं ११ यदि तेन न संस्तरेन्। ततः कारण उत्पन्ने, भक्तपानं गवेपयेत् ॥ १ ॥ Education intentional For Patenty पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~ 130~
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy