SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२७|| दीप अनुक्रम [२७] [भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||२७|| निर्युक्ति: [६४...] अध्ययनं [१], न्तीति 'पेहाएत्ति' एकारस्यालाक्षणिकत्वात् प्रेक्ष्य - आलोच्य प्रेक्षया वा एवंविधबुद्ध्या 'पयतो'त्ति प्रयतः - प्रयत्न - वान्, पदतो वा तथाविधानुस्मर्यमाणसूत्रालापकादिति सूत्रार्थः ॥ २७ ॥ किमिह परत्र चात्यन्तोपकारि गुरुवचनमपि कस्यचिदन्यथा सम्भवति ?, येनैवमुपदिश्यते इत्याह अणुसासणमोवायं, दुक्कडस्स य पेरणं । हियं तं मन्नए पन्नो, वेस्सं भवइ असाहुणो ॥ २८ ॥ (सूत्रम् ) व्याख्या- 'अनुशासनम्' उक्तरूपम् 'ओवायंति उपाये - मृदुपरुषभाषणादी भवमौपायं, यद्वा 'ओवायंति' सूत्रत्वात् उपपतनमुपपातः समीपभवनं तत्र भवमोपपातं - गुरुसंस्तारास्त रणविश्रामणादिकृत्यं 'दुष्कृतस्य च' कुत्सिताचरितस्य प्रेरणं हा ! किमिदमित्थमाचरितमित्याद्यात्मकं, गुरुविहितमिति गम्यते, 'हितम्' इहपरलोकोपकारि, 'तदित्यनुशासनादि मन्यते 'प्राज्ञः' प्रज्ञावान् द्वेष्यं' द्वेषोत्पादकं 'भवति' जायते, कस्य ? - 'असाधोः' अपगतभावसाधुत्वस्य तदनेनासाधोर्गुरुवचनस्याप्यन्यथात्वसम्भव उक्त इति सूत्रार्थः ॥ २८ ॥ अमुमेवार्थे व्यक्तीकर्तुमाहहियं विगयभया बुद्धा, फरुसमप्पणुसासणं । वेस्सं तं होइ मूढाणं, खंतिसुद्धिकरं पयं ॥ २९ ॥ (सूत्रम् ) व्याख्या- 'हितं' पथ्यं 'विगतभयाः' सप्तभयरहिताः 'बुद्धाः' अवगततस्थाः मन्यन्त इति शेषः, 'परुपमपि' कर्कशमपि, अनुशासनं शिष्याणां गुरुविहितमिति प्रक्रमः, 'द्वेष्यं' द्वेषोत्पादि 'तद्' इत्यनुशासनं भवति 'मूढानाम् ' Education intimatio For First Use Only पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~126~
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy