SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||५|| दीप अनुक्रम [4] उत्तराध्य. बृहद्वृत्तिः ॥ ४५ ॥ [भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || ५ || निर्युक्ति: [६३...] अध्ययनं [१], आह-दौः शील्यनिमित्त एवायमविनीतस्य दोषः, प्रत्यनीकतामुखरत्वयोरपि तत्प्रभवत्वात् तत्र चैत्रमनर्थहेतो किमसौ प्रवर्तत इति, जत्रोच्यते, पापोपहतमतित्वेन तत्रैवास्याभिरतिरितिकृत्वा, तामेव दृष्टान्तपूर्विकामाहकणकुंडगं जहित्ता णं, विद्वं भुंजइ सूयरो । एवं सीलं जहित्ता णं, दुस्सिले रमइ मिए ॥५॥ (सूत्रम् ) व्याख्या -- कणाः - तन्दुलास्तेषां तन्मिश्रो वा कुण्डकः- तत्क्षोदनोत्पन्नकुक्कुसः कणकुण्डकस्तं 'हित्वा' पाठान्तरतस्त्यक्त्वा वा 'विष्ठां' पुरीषं 'भुङ्क्ते' अभ्यवहरति 'सूकर' इति गतसूकरो, यथेति गम्यते, एवं 'शीलम् उक्तरूपं 4 प्रस्तावाच्छोभनं 'हित्वा' प्राग्वच्यक्त्वा वा दुष्टं शीलं दुःशीलं तस्मिन् भावप्रधानत्वाद्वा निर्देशस्य दुष्टं शीलमस्येति दुःशीलतद्भावो दौः शील्यं तस्मिन्, उभयत्र दुराचारादी 'रमते धृतिमाधत्ते मृग इव मृगः अज्ञत्वादविनीत इति प्रक्रमः, इदमत्र हृदयं यथा मृग उद्गीर्णासिपुत्रिकगौरिगायन पुरुषहेतु कमायती मृत्युरूपमपायमपश्यन्नज्ञः, एवमयमपि दौः शील्य हेतु कमागामिनं भवभ्रमणलक्षणमपायमनालोकयन्नज्ञ एवं सन् गर्तासूकरोपमः सदा पुष्टिदायिकणकुण्डकसदृशं शीलमपहाय विवेकिजनगर्हिततया विष्ठोपमे दुःशीले दौः शील्ये वा रमते, इह च दृष्टान्तेऽपि विड्भुक्त्यअभिरतिरेवार्धत उक्ता तदविनाभावित्वात्तस्याः, यद्वा शुभपरिहारेणाशुभाश्रयणमुभयत्रापि सादृश्यनिमित्तमस्तीति नोपमानोपमेयभावविरोध इति सूत्रार्थः ॥ ५ ॥ उक्तोपसंहारपूर्वकं कृत्योपदेशमाह For Fans Only अध्ययनम् १ ~ 101 ~ ॥ ४५ ॥ www.janbay.org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy