________________
आगम
(४२)
प्रत सूत्रांक
||--||
दीप
अनुक्रम
[
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः + चूलिका [१], मूलं [-], / गाथा ||- ||, निर्युक्तिः [३६०], भाष्यं [६२...]
:+|भाष्य|+वृत्तिः)
इति क्षेत्रचूडा लोकनिष्कुटा उपरिवर्त्तिनः मन्दरचूडा च पाण्डुकम्बला कूटादयश्च तदन्यपर्वतानां, क्षेत्रप्राधान्यात्, आदिशब्दादधोलोकस्य सीमन्तकः तिर्यग्लोकस्य मन्दर ऊर्ध्वलोकस्येषत्प्राग्भारेति गाथार्थः ॥ अइरित्त अहिंगमासा अहिगा संवच्छरा अ कालंमि । भावे खओवसमिए इमा उ चूडा मुणेअव्वा ॥ ३६१ ॥ 'अतिरिक्ता' उचितकालात् समधिका 'अधिकमासकाः प्रतीताः, अधिकाः संवत्सराच षष्ट्यब्दायपेक्षया 'काल' इति कालचूडा, 'भाव' इति भावचूडा क्षायोपशमिके भावे इयमेव द्विप्रकारा चूडा ' मन्तव्या' वि| ज्ञेया क्षायोपशमिकत्वाच्छ्रुतस्येति गाथार्थः ॥ तत्रापि प्रथमा रतिवाक्यचूडा, अस्याश्चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नाम निष्पन्ने निक्षेपे रतिवाक्येति द्विपदं नाम, तत्र रतिनिक्षेप उच्यते तत्रापि नामस्थापने अनादृत्य द्रव्यभावरत्यभिधित्सयाऽऽह
दुब्वे दुहा उ कम्मे नोकम्मरई अ सददव्बाई भावरई तस्सेव उ उदए एमेव अरईवि ॥ ३६२ ॥
|
द्रव्यरतिरागमनो आगमज्ञशरीरेतरातिरिक्ता द्विधा- कर्मद्रव्यरति नौकर्मद्रव्यरतिश्च तत्र कर्मद्रव्यरती रतिवेदनीयं कर्म, एतच बद्धमनुदयावस्थं गृह्यते नोकर्मद्रव्यरतिस्तु शब्दादिद्रव्याणि आदिशब्दात् स्पर्शरसादिपरिग्रहः रतिजनकानि-रतिकारणानि । भावरतिः 'तस्यैव तु' रतिवेदनीयस्य कर्मण उदये भवति, एव| मेवारतिरपि द्रव्यभावभेदभिन्ना यथोक्तरतिप्रतिपक्षतो विज्ञेयेति गाथार्थः । उक्ता रतिः, इदानीं वाक्यमतिदिशन्नाह
Far P&Personal Use Cly
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः द्रव्य भावौ रति अरत्योः विवेचनं क्रियते
~ 550 ~