SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [३७], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: 4 प्रत सूत्रांक/ गाथांक ||१|| -रे -“दुर्गतिप्रसृतान् जीवान् , यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद् धर्म इति स्मृतः॥१॥ मायते हितमनेनेति महालमित्यादि पूर्ववत्, 'उत्कृष्ट प्रधानम्, न हिंसा अहिंसा प्राणातिपातविरतिरित्यर्थः,13 I'संयमः' आश्रवद्वारोपरमः, तापयत्य नेकभवोपात्तमष्टप्रकारं कर्मेति तपः-अनशनादि, दीव्यन्तीति देवाः क्रीडन्तीत्यादि भावार्थः, अपिः सम्भावने देवा अपि मनुष्यास्तु सुतरां, 'तमित्येवंविशिष्टं जीवं, नमस्यन्तीति प्रकटार्थम् , यस्य जीवस्य किम् ?-'धर्मे प्रागभिहितखरूपे 'सदा' सर्वकालं 'मन' इत्यन्तःकरणम् । अयं पदार्थ इति । पदविग्रहस्तु परस्परापेक्षसमासभाक्पदपूर्वकत्वेनेह निवन्धनाभावान प्रदर्शित इति । चालनाप्रत्यवस्थाने तु प्रमाणचिन्तायां यथावसरमुपरिष्टादू वक्ष्यामः । प्रवृत्तिः पुनस्तयोरमुनोपायेनेति प्रदर्शनायाह-14 कथइ पुच्छइ सीसो कहिंच पुट्ठा कहंति आयरिया । सीसाणं तु हियट्ठा विपुलतरागं तु पुच्छाए ॥ ३८ ॥ व्याख्या-कचित्किञ्चिदनवगच्छन् पृच्छति शिष्यः कथमेतदिति इयमेव चालना, गुरुकथनं प्रत्यवस्थानम्,४ इत्थमनयोः प्रवृत्तिः । तथा कचिदपृष्टा एव सन्तः पूर्वपक्षमाशङ्कय किश्चित्कथयन्त्याचार्याः, तत्प्रत्यवस्थान|मिति गम्यते, किमर्थ कथयन्त्यत आह-शिष्याणामेव हितार्थम् , तुशब्द एवकारार्थः, तथा 'विपुलतरं तु' प्रभूततरं तु कथयन्ति 'पुच्छाएंत्ति शिष्यप्रश्ने सति, पटुप्रज्ञोऽयमित्यवगमादिति गाथार्थः ॥ एवं तावत्समासेन, व्याख्यालक्षणयोजना । कृतेयं प्रस्तुते सूत्रे, कार्येवमपरेष्वपि ॥१॥ अन्धविस्तरदोषान्न, वक्ष्याम उप-13 योगि तु । वक्ष्यामः प्रतिसूत्रं तु, यत् सूत्रस्पर्शिकाऽधुना ॥२॥ प्रोच्यतेऽनुगमनियुक्तिविभागश्च विशेषतः । दीप अनुक्रम RSS COCOCCASI ~52~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy