________________
आगम
(४२)
प्रत
सूत्रांक
||३८
-४०||
दीप
अनुक्रम
[३३१
-३३३]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||३८-४० || निर्युक्तिः [२९२...], भाष्यं [ ६२...]
तहा नईओ पुण्णाओ, कायतिज्जति नो वए । नावाहिं तारिमाउत्ति, पाणिपिजत्ति नो वए ॥ ३८ ॥ बहुवाडा अगाहा, बहुसलिलुप्पिलोदगा । बहुवित्थडोदगा आवि, एवं भासिज पन्नवं ॥ ३९ ॥ तहेव सावज्जं जोगं, परस्सट्टा अ निट्टिअं । कीरमाणंति वा नच्चा, सावज्जं न लवे मुणी ॥ ४० ॥
वाग्विधिप्रतिषेधाधिकार एवेदमाह - 'तहा नईउ'ति सूत्रं, तथा नय: 'पूर्णा' भृता इति नो वदेत्, प्रवृत्तश्रवणनिवर्त्तनादिदोषात्, तथा 'कायतरणीयाः शरीरतरणयोग्या इति नो वदेत्, साधुवचनतोऽविममिति प्रवर्त्तनादिप्रसङ्गात्, तथा नौभिः-द्रोणीभिस्तरणीयाः -तरणयोग्या इत्येवं नो वदेत्, अन्यथा विनशङ्कया तत्प्रवर्त्तनात्, तथा 'प्राणिपेया:' तटस्थप्राणिपेया नो वदेदिति तथैव प्रवर्तनादिदोषादिति सूत्रार्थः ॥ ३८ ॥ प्रयोजने तु साधुमार्गकथनादावेवं भाषेतेत्याह-- 'बहुवाहड'त्ति सूत्रं, बहुभृताः प्रायशो भृता इत्यर्थः, तथा 'अगाधा' इति बह्नगाधाः प्रायोगम्भीराः, तथा 'बहुसलिलोत्पीलोदकाः' प्रतिस्रोतोवाहितापरसरित इत्यर्थः तथा 'विस्तीर्णोदकाच' खतीरलावनप्रवृत्तजलाच, एवं भाषेत प्रज्ञावान् साधुः, न तु तदाऽऽगतष्पृष्टो न वेद्म्यहमिति ब्रूयात्, प्रत्यक्षमृषावादित्वेन तत्प्रद्वेषादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ३९ ॥ वाग्विधिप्रतिषेधाधिकार एवेदमाह - 'तहेब'सि सूत्रं तथैव 'सावयं' सपापं 'योगं' व्यापारमधिकरणं सभादिविषयं 'परस्यार्थाय'
For P&Personal City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
~450~
loca