________________
आगम
(४२)
प्रत सूत्रांक
||२६
-३५||
दीप
अनुक्रम
[३१९
-३२८]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य |+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा || २६-३५ || निर्युक्तिः [२९२...], भाष्यं [ ६२...]
बद्धास्वीनीति गर्तप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानीति नो वदेत् । तथा 'वेलोचितानि' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, 'टालानि' अवद्धास्थीनि कोमलानीति तदुक्तं भवति, तथा 'द्वैधिकानीति पेशी संपादनेन द्वैधीभावकरणयोग्यानीति नो वदेत् । दोषाः पुनरत्रात ऊर्ध्व नाश एवामीषां न शोभनानि वा प्रकारान्तरभोगेनेत्यवधार्य गृहिप्रवृत्तावधिकरणादय इति सूत्रार्थः ॥ ३२ ॥ प्रयोजने पुनर्मार्गदर्शनादावेवं वदेदित्याह - 'असंधड 'त्ति सूत्रं, असमर्धा 'एते' आना, अतिभरण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, आम्रग्रहणं प्रधानवृक्षोपलक्षणम्, एतेन पक्कार्थ उक्तः, तथा 'बहुनिर्वर्त्तितफलाः बहूनि निर्वर्त्तितानि - बद्धास्थीनि फलानि येषु ते तथा अनेन पाकखायार्थ उक्तः, वदेद् 'बहुसंभूताः' बहूनि संभूतानि - पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा भूतरूपा इति वा पुनर्वदेत्, भूतानि रूपाणि - अवद्धास्थीनि कोमल फलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षित इति सूत्रार्थः ॥ ३३ ॥ 'तहेव'त्ति सूत्रं, तथा 'ओषधयः' शाल्यादिलक्षणाः, पका इति, तथा नीलाइछ्वय इति वा वल्लचवलकादिफललक्षणाः तथा 'लवनवत्यो' लवनयोग्या: 'भर्जनवत्य' इति भर्जनयोग्याः तथा 'पृथुकभक्ष्या' इति पृथुकभक्षणयोग्याः, नो वदेदिति सर्वत्राभिसंबध्यते, पृथुका | अर्धपकशाल्यादिषु क्रियन्ते, अभिधानदोषाः पूर्ववदिति सूत्रार्थः ॥ ३४ ॥ प्रयोजने पुनमर्गदर्शनादावेवमालपेदित्याह - 'रुट' ति सूत्रं, 'रूढाः' प्रादुर्भूताः 'बहुसंभूता' निष्पन्नप्रायाः 'स्थिर' निष्पन्ना: 'उत्सृता' इति
Far P&Personal Use City
yang
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
~ 448~