SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति : [२२९...], भाष्यं [५७...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक पड़जीवनिकाध्य जीवस्वरूप (१) दशवका०वनस्पतिकायिकाः। एवं त्रसनशीलास्त्रसाः-प्रतीता एव, प्रसाः काया:-शरीराणि येषां ते सकायाः, स- हारि-वृत्तिः । काया एव त्रसकायिकाः । इह च सर्वभूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानं, तदनन्तरं तत्पतिष्ठितत्वादकायिकानामपि, तदनन्तरं तत्प्रतिपक्षत्वात्तेजस्कायिकानां, तदनन्तरं तेजस उपष्टम्भकत्वा- ॥ १३८॥ द्वायुकायिकानां, तदनन्तरं वायोः शाखाप्रचलनादिगम्यत्वानस्पतिकायिकानां, तदनन्तरं वनस्पतेरसोपग्राहकत्वाप्रसकायिकानामिति । विप्रतिपत्तिनिरासाथै पुनराह-'पुढवी चित्तमंतमक्खाया' 'पृथिवी' उक्तलक्षणा 'चित्तवती'ति चित्तं-जीवलक्षणं तदस्या अस्तीति चित्तवती-सजीवेत्यर्थः, पाठान्तरं वा 'पुढवी चित्तमत्तमक्खाया' अत्र मात्रशब्दः स्तोकवाची, यथा सर्षपत्रिभागमात्रमिति, ततश्च चित्तमात्रा-स्तोकचित्तेत्यर्थः, तथा च प्रवलमोहोदयात्सर्वजघन्यं चैतन्यमेकेन्द्रियाणां, तदश्यधिक द्वीन्द्रियादीनामिति, 'आख्याता' सर्वज्ञेन कथिता, इयं च 'अनेकजीवा' अनेके जीवा यस्यां साऽनेकजीवा, न पुनरेकजीवा, यथा वैदिकानां 'पृथिवी देवतेत्येवमादिवचनप्रामाण्यादिति । अनेकजीवाऽपि कैश्चिदेकभूतात्मापेक्षयेष्यत एव, यथाहुरेके"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैच, दृश्यते जलचन्द्रवत् ॥१॥” अत आह -'पृथकसत्त्वा' पृथग्भूताः सत्त्वा-आत्मानो यस्यां सा पृथक्सत्त्वा, अङ्गुलासंख्येयभागमात्रावगाहनया पारमार्थिक्याऽनेकजीवसमाश्रितेति भावः । आह-यद्येवं जीवपिण्डरूपा पृथिवी ततस्तस्यामुचारादिकरणे नियमतस्तदतिपातादहिंसकत्वानुपपत्तिरित्यसंभवी साधुधर्म इत्यत्राह-'अन्यत्र शस्त्रपरिणतायाः शस्त्रप अनुक्रम [३२] ॥१३८॥ JanEdicine ~287~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy