________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक -1, मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२६], भाष्यं [४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
(RN
अनुक्रम [३२]
दशका० अमूर्तत्वादेहावन्य इति योजना सर्वत्र कार्या । तथा 'बालकृतानुस्मरणात् कृतशब्दोऽत्रानुभूतवचनः, ततश्च पड्जीवहारि-वृत्सिवालानुभूतानुस्मरणात्, तथा च बालेनानुभूतं वृद्धोऽप्यनुस्मरन् दृश्यते, न च अन्येनानुभूतमन्यः स्मरति निकाध्य०
अतिप्रसङ्गात्, न चेदमनुस्मरणं भ्रान्तं, बाधाऽसिद्धेः, न च हेतुफलभावनिवन्धनमेतत्, निरन्ययक्षणविना- जीवस्वरूपं ॥१३१॥
शपक्षे तस्यैवासिद्धे, हेतोरनन्तरक्षणेऽभावापत्तेः, असतश्च सद्भावविरोधादिति प्रयोगार्थः, प्रयोगस्तु-अवस्थित आत्मा, पूर्वानुभूतार्थानुस्मरणात्, तदन्यैवंविधपुरुषवत् । उपस्थानादिति कर्मफलोपस्थानमत्र गृह्यते. ययेनोपातं कर्म स एव तत्फलमुपभुले, अन्यश्च क्रियाकालोऽन्यश्च फलकाल:, एकाधिकरणं चैतद्यम् , अ-12 न्यथा खकृतवेदनासिद्धेः, अन्यकृतान्योपभोगस्य निरुपपत्तिकत्वात्, कृतनाशाकृताभ्यागमप्रसङ्गात्, संतानपक्षेऽपि कर्तृभोक्तृसंतानिनो नावाविशेषात, शक्तिभेदात्, तस्यैव तथाभावाभ्युपगमे नित्यत्वापत्तेरिति प्रयोगार्थः, प्रयोगश्च-अवस्थित आत्मा, खकृतकर्मफलवेदनात्, कृषीवलादिवत् । श्रोत्रादिभिरग्रहणात्
श्रोत्रादिभिरिन्द्रियैरपरिच्छित्तेः, न च श्रोत्रादिभिरपरिच्छिद्यमानस्य असत्वम्, अवग्रहादीनां खसंवेदनटासिद्धत्वात्, बौद्धैरप्यतीन्द्रियज्ञानाभ्युपगमात्, ज्ञानस्य च गुणत्वात्, गुणस्य च गुणिनमन्तरेणाभावात्,
प्राक्तनज्ञानस्यैव गुणित्वानुपपत्तेः, तस्यापि गुणत्वादिति प्रयोगार्थः, प्रयोगश्च-नित्य आत्मा, गुणिखे सत्य-12 तीन्द्रियत्वात् , आकाशवत् । तथा जातिस्मरणादिति, जातेरतिक्रान्तायाः स्मरणात्, न चेदमनुस्मरणमननुभूतस्यान्यानुभूतस्य च भवति, अतिप्रसङ्गात्, दृश्यते च कचिदिदं, न चासौ प्रतारका, तत्कथितार्थसंवा
SCSSROCESSASSSS
॥१३१॥
~273~