SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ।।१९..।। दीप अनुक्रम [१६..] [भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं+निर्युक्तिः+ भाष्य | + वृत्तिः) अध्ययनं [३], उद्देशक [-], मूलं [-] / गाथा ||११...|| निर्युक्ति: [ १८० ], भाष्यं [४ ...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः Ja Education क्षेपमाह-प्रतीत्य यत् क्षुल्लकमुपदिष्टं तेनात्राधिकारः, यतो महती खल्वाचारकथा धर्मार्थकामाध्ययनं तदपेक्षया क्षुल्लिकेयमिति ॥ आचारस्य तु चतुष्को निक्षेपः, स चायम् - नामाचारः स्थापनाचारो द्रव्याचारो भावाचारश्च बोद्धव्य इति गाथाक्षरार्थः ॥ भावार्थे तु वक्ष्यति, तत्र नामस्थापने क्षुण्णे, अतो द्रव्याचारमाह-नामनधावनवासन शिक्षापनसुकरणाविरोधीनि द्रव्याणि यानि लोके तानि द्रव्याचारं विजानीहि । अयमत्र भावार्थः - आचरणं आचारः द्रव्यस्याचारो द्रव्याचारः, द्रव्यस्य यदाचरणं तेन तेन प्रकारेण परिणमनमित्यर्थः, तत्र नामनमवनतिकरणमुच्यते, तत्मति द्विविधं द्रव्यं भवति - आचारवदनाचारवच, तत्परिणामयुक्तमयुक्तं चे त्यर्थः तत्र तिनिशलतादि आचारवत्, एरण्डाद्यनाचारवत्, एतदुक्तं भवति-तिनिशलताचाचरति तं भावं तेन रूपेण परिणमति न त्वेरण्डादि, एवं सर्वत्र भावना कार्या, नवरमुदाहरणानि प्रदर्श्यन्ते-घावनं प्रति हरिद्वारकं वस्त्रमाचारवत् सुखेन प्रक्षालनात्, कृमिरागरक्तमनाचारवत् तस्मनोऽपि रागानपगमात्, वासनं प्रति कवेलुकाद्याचारवत् सुखेन पाटलाकुसुमादिभिर्वास्यमानत्वात् वैडूर्याद्यनाचारवत् अशक्यत्वात्, शिक्षणं प्रत्याचारवच्छुकसारिकादि सुखेन मानुषभाषासम्पादनात्, अनाचारवच्छकुन्तादि तदनुपपत्तेः, सुकरणं प्रत्याचारवत् सुवर्णादि सुखेन तस्य तस्य कटकादेः करणात्, अनाचारवत् घण्टालोहादि तत्रान्यस्य तथाविधस्य कर्तुमशक्यत्वादिति, अविरोधं प्रत्याचारवन्ति गुडदद्ध्यादीनि रसोत्कर्षादुपभोगगुणाच्च, अनाचारवन्ति तैलक्षीरादीनि विपर्ययादिति, एवम्भूतानि द्रव्याणि यानि लोके तान्येव तस्याचारस्य तद्र For ane & Personal Use Oily ~ 212~ brary dig
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy