________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [२], उद्देशक [-], मूलं [-] / गाथा ||१|| नियुक्ति: [१६०], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
॥ इत्यादि आवलिकाया वा समय इत्यादि, दिक्पूर्व पूर्वा दिग, इयं च रुचकापेक्षया, तापक्षेत्रपूर्वम्-आदित्योदयमधिकृत्य यत्र या पूर्वी दिक, उक्तं च-"जस्स जओ आदियो उदेह सा तस्स होइ पुवदिसा” इत्यादि, प्रज्ञापकपूर्व-प्रज्ञापनं (क) प्रतीत्य पूर्वा दिक् यदभिमुख एवासौ सैव पूर्वा, पूर्वपूर्व चतुर्दशानां पूर्वाणामाद्यं, तच उत्पादपूर्वम् , एवं वस्तुपाभूतातिप्राभृतेष्वपि योजनीयम् , अप्रत्यक्षस्वरूपाणि चैतानि, भावपूर्वम्-आयो भावः स चौदयिक इति गाथार्थः ॥ १६०॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपस्यावसरः, इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् , तश्चेदम्
कहं नु कुजा सामण्णं, जो कामे न निवारए । पए पए विसीदंतो, संकप्पस्स वसं गओ? ॥१॥
अस्थ व्याख्या-इह च संहितादिक्रमेण प्रतिसूत्रं व्याख्याने ग्रन्थगौरवमिति तत्परिज्ञाननिवन्धनं भावार्थमात्रमुच्यते-तत्रापि कत्यहं कदाहं कथमहमित्याद्यदृश्यपाठान्तरपरित्यागेन दृश्यं व्याख्यायते-'कथं नु कुर्याच्छ्रामण्यं यः कामान निवारयति? 'कथं केन प्रकारेण, नु क्षेपे, यथा कथं नु स राजा यो न रक्षति?, कथं नु स वै-18 याकरणो योऽपशब्दान् प्रयुक्रे, एवं कथं नु स कुर्यात् 'श्रामण्यं श्रमणभावं यः कामान् 'न निवारयति'न | प्रतिषेधते', किमिति न करोति?, तत्र "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्" इति वचनात् |
१ यस्य यत आदिख उदेति सा तस्य भवति पूर्वदिग्, २ पूर्ववृत्तौ दर्शनेऽप्यादर्शक्षु दृश्यमानेष्वदृश्यमानता
दीप अनुक्रम
दश-१५
JianEducation
~180