________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
||५||
दीप
अनुक्रम
[4]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||५|| निर्युक्तिः [१४४], भाष्यं [४ ...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः
॥ ७८ ॥
Ju Education
अजिइंदिय सोबहिया वहगा जइ तेऽवि नाम पुञ्जंति । अग्गीवि होज सीओ हेउविभत्तीण पडिसेहो ॥ १४४ ॥ व्याख्यान जितानि श्रोत्रादीनीन्द्रियाणि यैस्ते तथोच्यन्ते, उपधिश्छद्म मायेत्येनर्थान्तरम्, उपधिनासह वर्त्तन्त इति सोपधयो- मायाविनः परव्यंसका इतियावत् अथवा उपदधातीत्युपधिः- वस्त्राद्यनेकरूपः परिग्रहः तेन सह वर्त्तन्ते ये ते तथाविधा महापरिग्रहा इत्यर्थः वर्धन्तीति वधकाः - प्राण्युपमकर्त्तारः, 'जह तेऽवि नाम पुज्जंति'त्ति यदीति पराभ्युपगमसंसूचकः, त इति याज्ञिकाः, अपिः संभावने, नाम इति निपातो वाक्यालङ्कारार्थः, येऽजितेन्द्रियादिदोषदुष्टा यज्ञयाजिनो वर्त्तन्ते, यदि ते नाम पूज्यन्ते तग्निरपि भवेच्छीतः, न च कदाचिदप्यसौ शीतो भवति, तथा वियदिन्दीवरस्रजोऽपि वान्ध्येयोरःस्थलशोभामादधीरन्, न चैतद् भवति, यथैवमादिरत्यन्ताभावस्तथेदमपीति मन्यते, अथापि कालदौर्गुण्येन कथञ्चिदविवेकिना जनेन पूज्यन्ते तथापि तेषां न मङ्गलत्वसंप्रसिद्धिः, अप्रेक्षावतामतद्रूपेऽपि वस्तूनि तद्रूपाध्यारोपेण प्रवृत्तेः तथाहि - अकलङ्कधियामेव प्रवृत्तिर्वस्तुनस्तद्वत्तां गमयति, अतथाभूते वस्तुनि तद्बुद्ध्या तेषामप्रवृत्तेः, सुविशुद्धबुद्धयश्च दैत्यामरेन्द्रादयः, ते चाहिंसादिलक्षणं धर्ममेव पूजयन्ति न यज्ञयाजिनः तस्मादैत्यामरेन्द्रादिपूजितत्वाद्धर्म एवोत्कृष्टं मगलं न याज्ञिका इति स्थितम्, 'हेउविभत्तीणन्ति एष हेतुतद्विभक्त्योः
१ पर्यायाः प्र०२ व हिंसायामित्यन्यपठितधातुगणापेक्षयाऽयं प्रयोगः, अगणपठितं वधि हिंसार्थमाश्रित्य स्यात्परं तत्रात्मनेपदसम्भवः, यदि तेषामर्थान्तरेऽपि अनियमस्त्यादीन् प्रतीसपेक्ष्य स्वात्परस्मैपदिता तदा तत्रापि न दोषः,
For & Personal Use City
~167~
१ दुमपुष्पिका●
दशाव
यवाः
॥ ७८ ॥
Cyg